________________
Shri Mahavir Jain Aradhana Kendra
३००
www.kobatirth.org
विवेकाटकम्
Acharya Shri Kailassagarsuri Gyanmandir
विवेकः शब्दादिनयत्रयेण विभावविभजनक्षयोपशमसाधनोपयोगादिक्षायिक साधक परिणतिविवेकः इति यथाक्रममवगंतव्यं । तत्रामनः कर्मसंयोगैकत्वं विवेचयन्नाह - कर्म जीवं च संश्लिष्ट, सर्वदा क्षीरनीरवत् । विभिन्नीकुरुते योऽसौ, मुनिहंसो विवेकवान् ॥ १ ॥
कर्म जीवं च इति-कर्म ज्ञानावरणादिकं जीवं च सच्चिदानंदरूपं 'सर्वदा' सर्वकालं क्षीरं पयः नीरं जलं तद्वत् 'संश्लिष्ट एकीभूतं यः 'विभिन्नीकुरुते' लक्षणादिभेदैः पृथक् पृथक् कुरुते असौ : मुनिहंसः 'विवेकवान्' भेदज्ञानवान् जीवो नित्यः, पुद्गल - संगा अनित्याः; जीवोऽमूर्त्तः, पुद्गला मूर्त्ताः जीवोऽचलः, पुद्गलाः चलाः; जीवो ज्ञानाद्यनंतचेतनालक्षणः, पुद्गला अचेतनाः; जीवः स्वरूपकर्त्ता, स्वरूपभोक्ता, स्वरूपरमणाभावविश्रांतः, पुद्गलाः कर्तृत्वादिभावरहिताः; इत्यादिलक्षणैः विभज्य यो विरक्तः स मुनिः श्रमणो विवेकवान् विवेकयुक्त इति ज्ञेयम् ॥ १ ॥ देहात्माद्यविवेकोऽयं सर्वदा सुलभो भवे । भवकोट्यापि तद्भेद- विबेकस्त्वतिदुर्लभः ॥ २ ॥
देहात्मा इति - आत्मा त्रिविध:- बाह्यात्मा १ अन्तरात्मा २ परमात्मा ३ चेति, यस्य देहमनोवचनादिषु आत्मत्वभासः, देह एवात्मा एवं सर्वपौगलिक प्रवर्त्तनेषु आत्मनिष्ठेषु आत्मत्वबुद्धिः सबाह्यात्मा १ मिथ्यादृष्टिः एषः, पुनः सकर्मावस्थायामपि आत्मनि ज्ञानाद्युपयोगलक्षणे शुद्धचैतन्यलक्षणे महानंदस्वरूपे निर्विकारा मृताव्याबाधारूपे समस्तपरभावमुक्ते आत्मबुद्धिः अंतरात्मा सम्यगदृष्टिगुणस्थानकतः क्षीणमोहं यावत अंतरात्मा उच्यते
११२
For Private And Personal Use Only