________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३०५
मृत्पिडं उपादानं, दंडादि निमित्तं; तथा चात्मा ज्ञानादि कार्य तत्र स्वसत्तापरिणतिः उपादानं, स्वरूपशुओं शुद्धपारिणामिककार्ये निमित्ताभाव इति कर्मक्षपणशुद्धात्मप्राग्भावलक्षणे साधनकार्येऽप्यात्मा कर्ता, तवसिद्धिः कार्य, आत्मगुणा ज्ञानदर्शनचारित्रवीर्यरूपाः स्वधर्म साधनावलंबिनः कारणं उपादानं, निर्विकारवीतरागवाक्यादयः निमित्तं इति-
कम्मं किरियाकरणं, मिहनिविट्ठो जह न सा होइ । अहवा कम्मं कुंभो, सकारणं बुद्धि उत्ति ॥ १ ॥ भव्वोत्तिवजोगोत्तिव, सक्कातिवसोसख्वलाभस्स । करणं सन्निन्भंसि, विजन्नागासत्यमारंभो ॥ २॥ बज्झं निमित्ताविरकं, कज्जं चिय कज्जमाणकालंमि । ets कारणमिहरा, विवज्जया भावयाहोज्जा ॥ ३ ॥
1
क्रियते कर्त्रा निर्वृत्यते इति व्युत्पत्तेः कर्म भण्यते । काऽसौ क्रिया ? कुंभं प्रति कर्तृव्यापाररूपा सा च कुंभलक्षणकार्यस्य कारमिति प्रतीतमेव । आह - ननु कुलाल एव कुंभं कुर्वन्नुपलभ्यते, क्रिया तु न काचित् कुंभकरणे व्याप्रियमाणा दृश्यते । इत्याह- इह निश्रेष्टः कुलालोsपि यस्मान्न प्रसाधयति निष्पादयात या तस्य चेष्टा सा क्रिया इति कथं न तस्यां कुंभकारणत्वमिति । अथवा - कर्तुः ईप्सिततमत्वात् क्रियमाणः कुंभ एव कर्म, तर्हि कार्यमेवेदमतः कथमस्य कारणत्वं ?; नहि सुतीक्ष्णमपि सूच्यग्रमात्मानमेव विध्यति, ततः कार्यनिर्वर्त्यस्यात्मन एव कारणमित्यनुपपन्नमेवेत्याह सकारणं स कुंभः कारणं हेतुः कुंभस्य कुतः प्रस्तावात् कुंभबुद्धिहेतुत्वादिदमुक्तं भवति सर्वोऽपि बुद्धौ संकल्पः कुंभादिकार्य करोति, इति व्यवहारः । ततो बुद्धयव्यवसितस्य
39
११७
For Private And Personal Use Only