________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२९५
च यथार्थचिंतनं भावना च, स्वसंपद्विमुक्तेन पृथ्वीकायस्कंधा संपद्रूपेण उपचरिता न च ते संपत्, तथा जीवः ज्ञानदर्शनवीर्यसुखरूपैः भावप्राणैरेव जीवति । आयुर्जीवनं तु बाह्यप्राणसंबंधस्थितिहेतुतया तन्नात्मस्वरूपं तथा वर्णगंधरसस्पर्शाचेतनशरीरोपचयश्च न स्वरूपं, तदपि अस्थिर, इत्येवं अस्थिरपरभावे स्वात्मधर्मप्रध्वंसके कः प्रतिबंधः ?, तदर्थं च स्वगुणान् चेतनावीर्यादीन् कः परभावग्रहणोन्मुखान् करोति ? । अत आत्मनि आत्मगुणप्रवृत्तिरेव करणीया ॥३॥ शुचीन्यप्यशुचीकर्तुं, समर्थेऽशुचिसंभवे । देहे जलादिना शौच-भ्रमो मूढस्य दारुणः ॥४॥
शुचीन्यपीति-'मूढस्य' अज्ञस्य यथार्थापरयोगरहितस्य देहेंद्रियायतने 'जलादिना' पानीयमृत्तिकादिसंगेन शौचभ्रमः श्रोत्रियादीनां । ..:.' भयकृत, यश्च जात्याशुचिः स किं जलव्यूहैः शुवीभवति ?, कथंभूते देहे ?-शुचीन्यपि-कर्पूरादीन्यपि 'अशुचीकर्तुं समर्थे, देहसंगात् मलयजविलेपनादयोऽप्यशुचीभवंति, पुनः कथंभूते देहे ? 'अशुचिसंभवे' अशुचि आर्तवं मातुः रक्तं पितुः शुक्रं, तेन संभवः उत्पत्तिः यस्य स तस्मिन् । उक्तं च भवभावनायां
सुकं पिउणो माउऍ, सोणियं तदुभयपि संसठं । तप्पढमाए जीवो, आहारइ तत्थ उप्पन्नो ॥१॥ यूकाइसुणयभक्के, किमिकुलवासे य वाहिखित्ते य । देहम्मि अवधुविहुरे, सुसाणत्थाणे य पडिबंधो ॥ २ ॥
अतः अस्थिरे अपवित्रे औपाधिके अभिनवबंधकारणे द्रव्यभावाधिकरणे कः संस्कारः ॥ ४ ॥
For Private And Personal Use Only