________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९४
विद्याष्टकम्
शुद्धात्मनि नित्यता शुचिता आत्मता इति ज्ञप्तिः विद्या-तत्त्वविवेकः । अत्र नित्यत्वं तु उत्पादव्ययवरूपेऽपि अर्पितानर्पित प्रकारेण द्रव्यास्तिककूटस्थनित्यता ज्ञेया, इयं विद्या परमार्थसाधनपढ़ी योगाचार्यैः योगः-ज्ञानश्रद्धानचरणात्मकमोक्षोपायः तस्य आचार्याः-तदाचरणकुशलाः तैः प्रकीर्तिता । अत्र भेदज्ञानं साधनं । उक्तं च अध्यात्मबिंदौ “ यावंतो ध्वस्तबंधा अभूवन् , भेदज्ञानाम्यास एवात्र मूलं, यावंतोऽध्वस्तबंधा भ्रमंति, भेदज्ञानाभाव एवात्र बीजं" ॥१॥ यः पश्येन्नित्यमात्मनमनित्यं परसङ्गमम् । छलं लब्धुं न शक्नोति, तस्य मोहमलिम्लुचः ॥२॥
यः पश्येदिति-य आत्मार्थी आत्मानं नित्यं' सदा अचलितस्वरूपं 'पश्येत्' अवलोकयेत्, 'परसंगम' शरीरादिकं 'अनित्यं' अध्रुवं पश्येत् तस्य-साधनोद्यतस्य मोहो-मौढ्यं मुह्यता-मिथ्यात्वादिप्रांतिरूपा स एव मलिम्लुचः-तस्करः 'छलं छिद्रं लब्धं 'न शक्नोति' न समर्थों भवति, इति अनेन यथार्थज्ञानवतः रागादयो न प्रवद्धते, तस्यात्मा मोहाधीनो न भवति ॥२॥ तरङ्गतरलां लक्ष्मी-मायुर्वायुवदस्थिरम् । अदभ्रधीरनुध्याये-दभ्रवद् भङ्गरं वपुः ॥ ३ ॥
तरंगेति-'अदम्रधीः' पुष्टबुद्धिः लक्ष्मी तरंगवत्-जलधिकल्लोलवत् तरला-चपला तां तरंगतरलां अस्थिरां अनुध्यायेत्, 'आयुः जीवितं याति तद् वायुवत् 'अस्थिरं गत्वरं प्रतिसमयविनश्वरं अध्यवसानादिविघ्नोपयुक्तं 'अनुध्यायेत्' चिंतयेत् 'वपुः' शरीरं पुद्गलस्कंधनिचितं अभ्रवद्भगुरं-भंगशीलं अनुध्यायेत्, इदं
१०६
For Private And Personal Use Only