SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. २८९ पुद्गलेषु पुद्गलस्कंधजवर्णगंधरसस्पर्शसंस्थानादिषु योगानां द्रव्यभावमनोवचनकाययोगानां या अप्रवृत्तिः रम्या, रम्यतया अव्यापकत्वं तदभिमुखं वीर्यापसरणपरिसर्पणरहितं मौनं उत्तमं प्रशस्यं । भावना च परभावानुगचेतनावीर्यप्रवर्त्तनं चापल्यं तद्रोधः मौनं उत्तमं उत्कृष्टं आयत्यात्मनीनं योगचापल्यं च नात्मकार्य तेन तद्रोधः श्रेयान् । योगस्वरूपं कर्मप्रकृतौ । आत्मनो वीर्यगुणस्य क्षायोपशमप्राप्तस्यासंख्येयानि स्थानानि; सर्वजघन्यं प्रथमं योगस्थानं सूक्ष्मनिगोदिनः, एवं सूक्ष्मनिगोदेषु उत्पद्यमानस्य जंतोः भवति । इह जीवस्य वीर्य केवलिप्रज्ञाच्छेदकेन छिद्यमानं छिद्यमानं यदा विभागं न प्रयच्छति, तदा स एवांशो विभागः ते च वीर्यस्याविभागाः एकैकस्मिन् जीवप्रदेशे चिंत्यमाना जवन्येनाप्यसंख्येयलोकाकाशप्रदेशप्रमाणाः; उत्कर्षतोऽप्येतत्संख्या किंतु जघन्यपदभाविवीर्याविभागापेक्षया असंख्येयगुणा द्रष्टव्याः, येषां जीवप्रदेशानां समाः तुल्यसंख्यया वीर्याविभागा भवंति । सर्वेभ्योऽपि चान्येभ्योऽपि जीवप्रदेशगतवीर्याविभागेभ्यः स्तोकतमाः ते जीवप्रदेशा धनीकृतलोकासंख्येयभागासंख्येयप्रतरगतप्रदेशराशिप्रमाणाः समुदिता एका वर्गणा, सा च जवन्या स्तोकाविभागयुक्तत्वात् जघन्यवर्गणातः परे जीवप्रदेशाः एकेन वीर्याविभागेनाभ्यधिका घनीकृतलोकासंख्येयभागवर्त्यसंख्येयप्रतरगतप्रदेशराशिप्रमाणा वर्तते तेषां समुदायो द्वितीया वर्गणा । ततः परं द्वाभ्यां वीर्याविभागाभ्यामधिकानामुक्तसंख्याकानामेव जीवप्रदेशानामेव समुदायस्तृतीया वर्गणा, एवमेकैकवीर्याविभागवृद्धया वर्द्धमानानां तावंतो जीवप्रदेशानां समुदायरूपा वर्गणा असंख्येया वक्तव्याः, ताश्च कियत्य इति, इदं घनीकृतलोकस्य या एकैकप्रदेशपंक्तिरूपा श्रेणिः तस्याः श्रेणेरसंख्येयतमे भागे यावंतः 37 For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy