________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
मौतममम.. देहादेवल जो वसै, देव अणाइ अणंत । सो परजाणहु जोईया, अन्न न तं तं नमंत ॥१॥
आत्मज्ञानेनैव सिद्धिः साध्यमपि पूर्णात्मज्ञानं तदर्थमेव विवदंति दर्शनांतरीयाः, प्राणायामयंति रेचकादिपवनं, अवलंबयंति मौनं, प्रमंति गिरिवननिकुंजेषु, तथाप्यहत्प्रणीतागमश्रवणात् स्याद्वादस्वपरपरीक्षापरीक्षितस्वस्वभावौषधमंतरेण न कार्यसिद्धिः अतः प्राप्तावसरे तदेवानंतगुणपर्यायात्मकमात्मज्ञानमात्मनात्मनि करणीयं । उक्तं च
आत्माज्ञानभवं दुःख-मात्मज्ञानेन हन्यते ।
अभ्यस्यं तत्तथा तेन, येनात्मा ज्ञानमयो भवेत् ॥१॥ यथा शोफस्य पुष्टत्वं, यथा वा वध्यमण्डनम् । तथा जानन् भवोन्माद-मात्मतृप्तो मुनिर्भवेत् ॥६॥ ___ व्या०-यथा इति-यथा येन प्रकारेण शोफस्य पुष्टत्वं शरीरस्थौल्यं न पुष्टत्वे इष्टं, वाऽथवा यथा वध्यस्य मारणार्थ स्थापितस्य .मंडनं कणवीरमालाद्यारोपणात्मकं एवंरूपं भवोन्मादं जानन्. भवस्वरूपं एवंविधं जानन् मुनिः समस्तपरभावत्यागी आत्मतृप्तः आत्मस्वरूपे अनंतगुणात्मके तृप्तः तुष्टो भवेत् संसारस्वरूपमसारनिष्फलं अभोग्यं तु तद् ज्ञात्वा मुनिः स्वरूपे मग्नो भवति ॥ ६॥ सुलभं वागनुच्चारं, मौनमेकेन्द्रियेष्वपि । पुद्गलेष्वप्रवृत्तिस्तु, योगानां मौनमुत्तमम् ॥७॥ ___ व्या०-सुलभमिति-वागनुच्चारं वचनाप्रलापरूपं मौनं सुलभ सुप्राप्यं तत् एकेंद्रियेष्वपि अस्ति । तन्मौनं मोक्षसाधकं नास्ति।
१००
For Private And Personal Use Only