________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२९०
मौमाष्टकम्.
आकाशप्रदेशाः तावन्मात्रा वर्गणा समुदिता एकस्पर्द्धकं "स्पर्धते इवोत्तरोत्तरवृद्धया वर्गणा अत्रेति स्पर्द्धकं” पूर्वोक्तस्पर्द्धकगतचरमवर्गणायाः परतो जीवप्रदेशानैकेन वीर्याविभागेनाधिकाः प्राप्यंते नाऽपि द्वाभ्यां नाऽपि त्रिभिः नांऽपि संख्येयैः, किंत्वसंख्येयलोकाकाशप्रमाणैरभ्यधिकाः प्राप्यंते, ततस्तेषां समुदायो द्वितीयस्य स्पर्द्धकस्य प्रथमा वर्गणा ततः जीवप्रदेशानामेकेन वीर्याविभागेनाधिकानां समुदायो द्वितीया वर्गणा, द्वाभ्यां वीर्याविभागाम्यां अधिकानां समुदायः तृतीया वर्गणा, एवं तावद्वाच्य यावत् श्रेण्यसंख्येयभागगत प्रदेशराशिप्रमाणा वर्गणा भवंति, तासां च समुदायः द्वितीयं स्पर्द्धकं ततः पुनरप्यसंख्ये यलोकाकाशाः प्रदेशप्रमाणैः वीर्याविभागैरभ्यधिकाः प्राप्यंते, ततस्तेषां समुदायाः तृतीयस्य स्पर्द्धकस्य प्रथमा वर्गणा, ततः एकैकवीर्याविभागया द्वितीयादयो वर्गणास्तावद्वाच्यं यावत् श्रेण्यसंख्येयभागगतमदेशराशिप्रमाणा भवति, तासां च समुदायः तृतीयं स्पर्द्धकं, एवमसंख्येयानि स्पर्द्धकानि वाच्यानि एवं पूर्वोक्तानि स्पर्द्धकानि श्रेण्यसंख्येयभागगत प्रदेशराशिप्रमाणानि जवन्यं योगस्थानं, एतच्च सूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य भवप्रथमसमये वर्त्तमानस्य प्राप्यते, ततः अस्य जीवस्याधिकतरवीर्यस्य येऽल्पतरवीर्या जीवप्रदेशाः तेषां समुदायः प्रथमा वर्गणा । ततः एकेन वीर्याविभागेन वृद्धानां समुदायो द्वितीया वर्गणा । द्वाभ्यां अधिकानां समुदायस्तृतीया वर्गणा । एवमेकैकवीर्याविभागवर्द्धमानानां यावत् श्रेण्यसंख्ये भागगत देशराशिप्रमाणा भवंति, तासां समुदायः प्रथमस्पर्द्धकं । ततः प्राक्तनयोगस्थानप्रदर्शितप्रकारेण द्वितीयादीनि स्पर्द्धकानि वाच्यानि तानि च यावत् श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि भवति, ततस्तेषां समुदायो द्वितीयं योगस्थानं ।
१०२
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only