________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MAAAAAM
२८२
निःस्पृहाष्टकम् गत्वरैः औपाधिकैः सुखैः सकाशात् मुनिस्वरूपजैः सहजानश्वरैः परमानंदसुखैः पूर्णः । यतो जातिभेद एवायं इंद्रियात्मसुखयोः इंद्रियजे सुखे सुखत्वं आरोपितमेव न च पुद्गलस्कंधे तु सुखं सुखहेतुत्वं च आत्मन्येवाच्छिन्नसुखपरंपरासुखस्य कर्तृत्वादिकास्कषट्कं आत्मन्येवं अतो वास्तवं सुखं जिनाज्ञानिगृहीतपरभावस्य निःस्पृहमुनेरेव अतो निःस्पृहस्य महदिंद्रियागोचरं स्वाभाविकं सुखं इति ॥ ७॥ परस्पृहा महादुःखं, निःस्पृहत्वं महासुखम् । एतदुक्तं समासेन, लक्षणं सुखदुःखयोः॥८॥ .. व्या०-परस्पृहा इति-परस्य परवस्तुनः परात् वा स्पृहा आशा महादुःखं महत्कष्टं निःस्पृहत्वं निवांछकत्वं महासुखं महानंदः, इति सुखदुःखयोः समासेन संक्षेपेण एतद् लक्षणं उक्तं कथितं इत्यनेन पराशा एव दुःखं यच्च निर्विकाराखंडसच्चिदानंदस्य स्वाभाविकात्मधर्मभोक्तुः परभावामिलाष एव दुःखं तर्हि किं पराशा इति अस्यात्मनः स्वपरविवेकनिगृहीतपरभावाविर्भावितात्मानंतानंदस्य निःस्पृहत्वं धर्मः तदास्वादनेन सुखमिति अत एव स्पृहा त्याज्या स्पृहा हि स्वसामर्थ्यशून्यस्य भवति. अयं तु पूर्णानंदाखिलज्ञेयज्ञानवान् परमः पदार्थः सर्वपदार्थावगमस्वभावः शुद्धात्मीयानंदभोगी, तस्य अनादिस्वतत्त्वानुभवभ्रष्टत्वेन परस्पृहां गतस्यापि सांप्रतं अव्याबाधात्मभावनया टंकोत्कीर्णन्यायेन अवगतात्मस्वरूपस्य स्पृहा पराशा न भवति इत्युपदेशः ॥८॥
इति व्याख्यातं निःस्पृहाष्टकम् ॥ १२ ॥
For Private And Personal Use Only