________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
तूलं तृणादपि लघु, तूलादपि हि याचकः । वायुना किं न नीतोऽसौ ? मामपि प्रार्थयिष्यति ॥ १ ॥
२८१
तदाश्चर्य लघवोऽपि एते स्पृहादिना अपि भववारिधौ भवसमुद्रे मज्जति । अन्यत्र लघुत्वं भवमज्जनहेतुरेव यद्यपि प्रार्थनादिदानव्यवहाराः तथापि त्रिभुवनधनस्वजनपिपासागरिष्ठा ब्रुडंति इत्यर्थः ॥ ५ ॥
गौरवं पौरवन्द्यत्वात्, प्रकृष्टत्वं प्रतिष्ठया । ख्यातिं जातिगणात् स्वस्य, प्रादुष्कुर्यान्न निःस्पृहः ॥ ६॥
व्या० – गौरवमिति - निःस्पृहः लौकिकस्पृहारहितः पौरवंद्यत्वात् नागरिकलोकवंद्यत्वात् गौरवं गुरुत्वं प्रतिष्ठया शोभया प्रकृष्टत्वं जातिगुणात् स्वस्य कुलसंपन्नतादिख्यातिं न प्रादुष्कुर्यात् न प्रकटीकुर्यात् इत्यादि । निःस्पृहा महत्त्वं न ख्यापयंति न विशदीकुर्वतिः निःस्पृहस्य न यशोमहत्वाभिलाषः ।। ६ ।। भूशय्या भैक्षमशनं, जीर्ण वासो गृहं वनम् । तथापि निःस्पृहस्याहो, चक्रिणोऽप्यधिकं सुखम् ॥७॥
व्या० - भूशय्या - इति भूः वसुंधरा एव शय्या पल्यंकः भैक्षं भिक्षया जातं मैक्षं अशनं भोजनं । उक्तं च
अहो जिणेहिं असावज्जा, वित्ती साहूण देखिआ । मोक्खसाहणंहेउस्स, साहुदेहस्स धारणा ॥ १ ॥
For Private And Personal Use Only
तथा च वासो वस्त्रं जीर्ण, गृहं स्थानं वनं, तथापि अहो इति अद्भुतं निस्पृहस्य बाह्यसंपद्विकलस्यापि सुखं चक्रिणः सकाशात् स्वं चक्रवर्त्तितः सुखं अधिकं अत्यंतं इति चक्रवर्त्यादि
36
९३