________________
Shri Mahavir Jain Aradhana Kendra
२८०
www.kobatirth.org
किस्पाटक
व्या०-- विंदति इति-- बुधाः तत्त्वज्ञाः ज्ञानदात्रेण स्पृहाविलतां स्पृहा एव विषवल्ली तां छिंदति । यस्याः फलं यस्ले मुखशोकं च पुनः मूर्छा च पुनः दैन्यं यच्छति ददाति इत्यनेन स्पृहाविषलता मुखशोकादिकं वितरति । इच्छको दीनो भवति तेन विषयविषोपमविषयस्पृहा निवारणीया इति ॥ ३ ॥ निष्कासनीया विदुषा, स्पृहा चित्तगृहाद् बहिः । अनात्मरतिचाण्डाली - सङ्गमङ्गीकरोति या ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्या० - निष्कासनीया विदुषा पंडितेन आत्मसमाधिसाधनोंद्यतेन स्पृहा पराशा चित्तगृहात् मनोनिकेतनात बहिर्निष्कासनीया दूरीकरणीया । स्पृहा हि लोभपर्यायः लोभश्च कषायपरिणामः तद्विगम एव श्रेयान् या स्पृहा अनात्मरति चांडाली संगं अनात्मानः परभावाः तेषु रतिः रमणीयतापरिणतिः सा एव चांडाली तस्याः संग अंगीकरोति । अतः स्पृहा त्याज्या । उक्तं च-
जे परभावे रता, मत्ता विसयेसु पावबहुले । आसापासबिद्धा, भगति चउगईमहरिने ।। १ ।।
•
परभाववृत्तिरेव विभावः आत्मशक्तिध्वंसनमुद्गरः अतो निरस्तपराशापाशा निर्ग्रथाः स्वरूपचिंतनस्वरूपरंमणानुभवलीनाः, पीनाः तत्त्वानंदे रमंते स्वरूपे, विरमंति विषयविरूपभवकूपपाततः ॥४॥ स्पृहावन्तो विलोक्यन्ते, लथवस्तृणतूलवत् । महाश्चर्य तथाप्येते, मज्जन्ति भववारिधौ ॥ ५ ॥ व्या० - स्पृहावंत इति - स्पृहावंतः परेच्छानिरताः तृणतूलवलवः तुच्छा अनिर्मला विलोक्यते । उक्तं च
९२
For Private And Personal Use Only