________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
व्या०—स्वभाव इति-स्वभावः आत्मधर्मज्ञानदर्शनरमणाव्याबाधामूर्त्तानंदरूपाविच्छिन्नसिद्धत्वशुद्ध पारिणामिकलक्षणः तस्य लाभात् । अन्यत्किमपि प्राप्तव्यं लब्धुं योग्यं न अवशिष्यते । अवशिष्टोऽस्ति आत्मस्वरूपलाभ एव लाभ इति आत्मैश्वर्य स्वरूपसाम्राज्यं तेन संपन्नः संयुक्तः मुनिः ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याख्यातद्रव्यभावास्रवः साधुः निःस्पृहः सर्वशरीरोपकरणपरिवारयशो बहुमानादिषु स्पृहारहितः इच्छारहितो जायते भवति । नह्यनादितृष्णा स्वभावोपभोगमंतरेणोपशाम्यति ॥ १ ॥ संयोजितकरैः के के, प्रार्थ्यन्ते न स्पृहावहैः ? | अमात्रज्ञानपात्रस्य, निःस्पृहस्य तृणं जगत् ॥ २ ॥
व्या० - संयोजित इति - स्पृहावहैः इच्छामः पुरुषैः के के जनाः परिग्रहभारभुग्ना न प्रार्थ्यते न याच्यंते ? किंभूतैः १ स्पृहाव है: संयोजित करो येषां ते संयोजितकराः तैः इत्यनेन विषयाशालो लुपैः अनेकान्यनृपसेवनोद्यतैः भवितव्यं भवति । मात्रा मानं तेन रहितं अमात्रं च तत् ज्ञानं च तत् अमात्रज्ञानं तस्य पात्रं स्थानं तस्य साधोः निःस्पृहस्य स्पृहारहितस्य जगत् तृणं तृणप्राथं परभावेच्छामुक्तस्य निर्ग्रथस्य जगत् तृणं निःसारं स्वात्मस्वरूपं ।
For Private And Personal Use Only
२७९
गाथा
तिणसंभारनिसन्नो, मुनिपवसे भठ्ठरागमयमोहो । जं पावइ मुत्तिसुहं, कत्तो तं चक्कवट्टीवि ॥ १ ॥ आयसहावविलासी, आयविसुद्धोवि जो 'निये धम्मे । नरसुरविसयविलासं, तुच्छं निस्सारमन्नंति ॥ २॥ छिन्दन्ति ज्ञानदात्रेण, स्पृहाविषलतां बुधाः । मुखशोकं च मूर्छा च, दैन्यं यच्छति यत्फलम् ॥३॥
९१