________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निर्लेपाष्टकम् .
च आत्मज्ञानमात्रसंतुष्टा रागद्वेषप्रविष्टाः सम्यग्दर्शनादिगुणभ्रष्टाः आत्मानं अबंधतया जानंति ते निरस्ताः, उक्तं च उत्तराध्ययने
भणंता अकरता य, बंधमुक्खपइनिणो । वायावीरियमित्रेणं, समासा संति अप्पयं ॥ १ ॥ न चित्ता तायए भासा, कओ विज्जाणुसासणं । विसन्ना पावकम्मेहि, बाला पंडियमाणिणो ॥ २ ॥
अत एव तत्त्वश्रद्धानसम्यगज्ञानोपयुक्ता यदात्मनः क्षयोपशमिकचेतनावीर्यादिशक्तीन् परभावविभावान् आकृष्य आत्मगुणे प्रवर्तयति तावती अबंधकता शेषा, यावती परानुगा विषयकषायचापल्यताशक्तिः तावती बंधकता एवं सर्वात्मशक्तिः स्वरूपविश्रामरमणरूपा तदा सर्वात्मना अबंधकः इति सिद्धांतः ॥३॥ लिसता ज्ञानसम्पात-प्रतिघाताय केवलम् । निर्लेपज्ञानमग्नस्य, क्रिया सर्वोपयुज्यते ॥४॥ . व्या०-लिसता इति-निर्लेपज्ञानमग्नस्य शुद्धस्याद्वादात्मज्ञानमनस्य पुंसः क्रिया आवश्यककरणरूपा लिप्तता ज्ञानसंघातप्रतिघाताय ज्ञानं विभावचेतनोपयोगः तत्र संपातः पतनं तस्य प्रतिघाताय निवारणाय केवलं उपयुज्यते उपकारीभवति, इत्यनेन ध्यानारूढस्य न क्रियाकरणं, किंतु भावना चिंता ज्ञानवतः विघ्नवारणाय क्रिया उपकारिणी ध्यानाधिरूढस्यापच्युतात्मस्वभावानुभवस्थस्य विघातिनी आगमेऽपि पूर्व यदमृतकुंभोपमं तदेवोपरि विषकुंभोपमं । उक्तं च
जा किरिया सुट्टयरी, सा विसुद्धीए न अप्पधम्मोति । पुब् िहीयाय पच्छा, अहिया जह निस्सहाइतिगं ॥ १ ॥ अत एव आत्मस्वरूपावबोधैकत्वं हितं ॥ ४॥
८६
For Private And Personal Use Only