________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२७५
तपःश्रुतादिना मत्तः, क्रियावानपि लिप्यते । भावनाज्ञानसम्पन्नो, निष्क्रियोऽपि न लिप्यते ॥५॥ __व्या०-तप इति-क्रियावान् अपि जिनकल्पादितुल्यक्रियाभ्यासी अपि तपःश्रुतादिना मत्तः मानी अभिनवकर्मग्रहगैर्लिप्यते, न च रुषा दयोत्कृष्टा क्रिया हितकारिणी । उक्तं आचारांगे-" सेवतां कोहं च माणं च लोभं च एवं पासगस्स देसणं उवरब्भत्थस्स पलियंतकरस्स आयाणं संगंडं, इति । पुनः “वंतो लोगस्स णसेमतिमं पडिक्कमज्जासित्तिबेमि । पुनः पुनः “परिन्नायलोगसन्नं च बाले पुणणिहे कामसमणुन्ने असमितदुक्खे दुक्खाणमेवं अवहं अणुपरियहुति ।” अतः क्रियादिमत्तः आहाराश्चत्वारः उवलोकदुःखशोकवितिगिच्छामोहाभिधानपंचदशसंज्ञया धर्माभ्यासः 'प्रवृत्तिन धर्मः' इत्याचारांगवृत्तौ । भावना अनुप्रेक्षातद्ज्ञानमग्नः निष्क्रियः अपि ताहक्तीव्रतरवीर्यावृत्तो न लिप्यते न बध्यते । उक्तं च सूत्रकृताङ्गे--
न कम्मणा कम्म खवंति बाला, अकम्मणा कम्म खवंतिवीरा। मेहाविणो लोभमयावतीता, संतोसिणो नोपकरति पावं ॥१॥ जहा कुंम्भो सअंगाई, सए देहे समाहरे । एवं पावाइं मेहावी, अज्झप्पेणं समाहरे ॥२॥
इत्यनेन भावनाज्ञानं तत्वैकत्वानुभवान्वितं सम्यगज्ञान, तेन युक्तः न लिप्यते सर्वः सत्क्रियाभ्यासः शुद्धसिझात्मस्वरूपाविर्भावसाध्यतत्त्वज्ञानानुभवयुक्तस्य हिताय भवति ॥ ५॥ अलिप्तो निश्चयेनात्मा, लिप्तश्च व्यवहारतः । शुद्ध्यत्यलिसया ज्ञानी, क्रियावान् लिप्तया दृशा ॥६॥
For Private And Personal Use Only