________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२७३
मिति सकलपुद्गलकालिकाग्राहकाभोंक्तत्वाकारकत्वात्मज्ञानवान् स न लिप्यते । लेपो हि पुद्गलानुयायिनः चेतनया भवति सर्वथा विधिविच्छिन्नसंगस्य न लेपः । इति गाथार्थः ॥ २ ॥ लिप्यते पुद्गलस्कन्धो, न लिप्ये पुद्गलैरहम् । चित्रव्योमाञ्जनेनेव, ध्यायन्निति न लिप्यते ॥३॥
व्या०-लिप्यते इति–लिप्यते अन्योन्याश्लेषेन संक्रमादिमा पुद्गलस्कंधः अन्यैः पुद्गलैः लिप्यते उपचयी भवति स्वजातिद्रव्यपरिवर्तनपरिणामिकस्याधिकरसोत्पत्तिबंधनधर्मत्वात्, पुद्गलानों संबंधः त्रिगुणः, पंचगुणेन बंधः पंचगुणः सप्तगुणेन एवं सर्वत्र द्विगुणः, चतुर्गुणेन चतुर्गुणः, षड्गुणेन षड्गुणोऽष्टगुणेन एवं बंधसंयोगो भवति । अत्र स्निग्धरूक्षौ स्पर्शस्थौ अपि एकांतेन न स्कंधहेतुः स्पर्शस्य स्कंधकरण उपादानाभावात् न रसस्थौ रसस्य आस्वादनरूपत्वात् अतः पूरणगलनगुणविभागानामेव द्वयधिकत्वं स्निग्धरूक्षस्पर्शसंगपरिणतं स्कंघत्वहेतुः; अतः पुद्गले पुद्गला एव लिप्यते । अहं निर्मलानंदचिद्रूपः न पुद्गलाश्लेषी अंतः शुद्धात्मा पुरलेन लिप्यते । वस्तुवृत्त्या पुद्गलात्मनोः तादात्म्यसंबंध एव नास्ति। संयोगसंबंधस्त्वौपाधिकः, चित्रांजनैर्न व्योम इव इति व्यायन् न लिंप्यते । यथा व्योम आकाशं चित्र: अंजनैः संलिप्यमानमपि न लिप्यते। तथा अहमपिं अमूर्तीत्मस्वभावः पुद्गलैः एकक्षेत्रावगाडैः न लिप्यते । यो हिं आत्मस्वभाववेदी स्ववीर्यज्ञानादिशक्ति आत्मनि व्यापारयन् अभिनवकर्मग्रहणैर्न लिप्यते यावती आत्मशक्तिः परानुयायिनी तावत् आस्रवः, स्वरूपानुयायिनी स्वशक्तिः संवरः इति रहस्यं । अब 35
..
.
For Private And Personal Use Only