________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालभोगैः अतृप्ताः न च एते तृप्तिहेतवः असदारोप एवायं । लोके चतुर्दशरज्ज्वात्मके अनंतसकर्मजीवात्मके एको भिक्षुः आहारागृनुः संयमयात्रार्थ मिक्षणशीलो निष्परिग्रहः सुखी अस्ति । ज्ञानं स्वरूपावबोधः तेन तृप्तः निरंजनः रागाद्यंजनश्यामतापरहितः स्वधर्मभोगवत्वात् यद्वस्तुनि यत्रो न भवति ततो न जायते तृप्तिः । उक्तं च विशेषावश्यके
जत्तो च्चिय पच्चक्खं, सोम्म सुहं नत्थि दुक्खमेवेदं । तष्पडियारविभत्तं, तो पुण फलंति दुक्वंति ॥१॥ विसयसुहं दुक्खं चिय, दुक्ख पडियारओ तिगिच्छिव्व । तं सुहमुवयाराओ, न उवयारो विणा तचं ॥२॥ सायासायं दुक्खं, तविरहम्मि अ सुहं जउ तेण । देहिंदियेसु दुक्खं, सुक्खं. देहेदिआभावे ॥३॥
इति सातसातयोर्विपाकभेदः एव नत्त्वावरणे अव्याबाधावरणत्वं तु उभयोरपि यच्च स्वगुणान् घातयति तद् दुःखं कः सुखत्वेनोररीकुरुते ? इति आत्मनः ज्ञानानंदानुभवा. तृप्तिः प्रशस्या नौपाधिकी इत्यनेन तया एव सम्यग्दर्शनिनः स्तुवंति अहेतं, पूजयंति परमात्मानं, देशविरता अपि सामायिकपौषधोपवासिनः, आत्मानुभवलवास्वादनार्थमेव तिष्ठति एकांते मुनयः, तनिष्पादनाय त्यजति पंचाश्रवान्, तद्विघाताय गृहंति भीष्मग्रीष्मतप्तशिलातापतापनां, शिशिरहिमनिशाकरकरामिवातक्षुब्धा वसंति अवसना क्ने, स्वाध्यायंति आगमव्यू हान् क्षमादिधर्मद्वारा, भावयति अज्ञानं तत्वज्ञानेन, आरोहंति गुणश्रेणिशृंगे, चिंतयंति तचैकत्वं तखसमाध्यर्थमेव प्राणायामादिप्रयासो जिनकल्पादिकल्पः इति स्वस्वभावानुभवतृप्तिः सर्वैरभ्यस्या ॥ ८ ॥
इति व्याख्यातं तृप्त्यष्टकं दशमम् ।
For Private And Personal Use Only