________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२६९
श्रर्याभिलाषुकैः अग्राह्ये गृहीतुमशक्ये गोरसात् वाग्रसात् बाह्ये वाचामगोचरे 'अप्राप्यं मनसा सह' इति उक्तत्वात् 'अपयस्स पयं नत्थि' इत्याचारांगवचनात् । एवंविधे परब्रह्मणि परमात्मनि या तृप्तिः सा लोकैर्न ज्ञायते एव अतः पुद्गलोपचारसहस्रैः सा तृप्तिर्न भवति ॥ ६ ॥ विषयोर्मिविषोद्गारः, स्यादतृप्तस्य पुद्गलैः । ज्ञानतृप्तस्य तु ध्यान - सुधोद्वारपरम्परा ॥ ७ ॥
व्या०-विषयोर्मिं इति - अतृप्तस्य स्वरूपास्वादरहितस्य पुद्गलैः अंगनालिंगनादिकैः विषयोर्मिविषोद्वारः स्यात् भवेत, विषयोर्मिः इंद्रियविलासः स एव विषस्योद्गारः प्रकाशः स्यात् । उक्तं च-
जह जह पुग्गलभोगो, तह तह वढ्ढइ विसयपि कसाई । इंदियसुहा दुहा खल, अगिज्झा तउ रचाणं ॥ १ ॥ ज्ञानतृप्तस्य स्वात्मतच्वावबोधपूर्णस्य ध्यानं तत्त्वैकत्वं तदेव सुधा अमृतं तस्य उद्गारः तस्य परंपरा श्रेणिर्भवेत् निरामयनिर्मलपरमात्मानुभवः तृप्तेः लक्षणं एतत् तत्त्वभावना तत्वज्ञानतत्त्वच्यानामृतोद्वारपरंपरावृद्धिः ॥ ७ ॥
सुखिनो विषयातृप्ता, नेन्द्रोपेन्द्रादयोऽप्यहो । भिक्षुरेकः सुखी लोके, ज्ञानतृप्तो निरञ्जनः ॥ ८ ॥
व्या० - सुखिनो विषयातृप्ता इति - अहो इति आश्वर्ये इंद्रो - पेंद्रादयः इंद्रः शक्रः, उपेंद्रः कृष्णः, इत्यादयः अनेके न सुखिनः सुखमया न । कथंभूता इंद्रोपद्रादयः ? विषयातृप्ता विषयैः मनोज्ञेद्रियसंयोगैः अतृप्ता अनेकवनिताविलासषडरसग्रा ससुरभि - कुसुमवासरम्यावासादिभिः मृदुशब्दाकर्णनवर्ण्यवर्णावलोकनैरसंख्य
For Private And Personal Use Only