________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानपीठीका.
२६७
व्या० संसारे इति, संसारे द्रव्यतः चतुर्गतिरूपे भावतः मिथ्यात्वादिनिभावलक्षणे संसरणे, आभिमानिकी मिथ्याभिमानोत्पन्ना पुद्गलादिप्राप्तिमान्यतारूपा तृप्तिः, सा स्वमवत् मिथ्या वितथा कल्पनारूपा एव, यतः अज्ञः तृष्णाग्रसितः स्वीयक ल्पनाकल्पितेष्टतेष्टीकृतपुत्रलस्कंध संपत्तौ 'अहो मया प्राप्तं मणिरत्नादिव्यूहं' पापोदयमाधुरीवचनचातुरीचतुरः स्वजनसमूहश्चेति तृप्तः तिष्ठति, तथापि कल्पनारूपत्वात् औदयिकत्वात् परत्वात् स्वसत्तारोधकाष्टक र्मबंधनिदानरागद्वेषोत्पादकत्वात् दुःखं एव तया इति, मरुमरीचिकाकल्पा तृप्तिः न सुखहेतुः, तु पुनः प्रांतिशून्यस्य मिथ्यात्वावबोधरहितस्य सम्यग्ज्ञानोपयुक्तस्य स्वतवामिमुखस्य तथ्या सत्या स्वस्वभावाविर्भावानुभवात्मिका तृप्तिः सुखहेतुः किंभूता ? सा तृप्तिः सात्मवीर्यविपाककृत्, आत्मना सह सात्मा तस्य यद् वीर्य तस्य विपाकः पुष्टिविशेषः तं करोतीति कृत् इत्यनेन स्वभावगुणानुभवोत्था तृप्तिः आत्मनः सहजं वीर्य पुष्टीकरोति, तेन सामर्थ्येन गुणप्राग्भावः । अतो मुरुचरणसेवनागमश्रवणतश्चग्रहणादिना आध्यात्मिकी तृप्तिः विधेया इत्युपदेशः ॥ ४ ॥
पुद्गलैः पुद्गलास्तृप्तिं यान्त्यात्मा पुनरात्मना । परतृप्तिसमारोपो, ज्ञानिनस्तन्न युज्यते ॥ ५ ॥
व्या० पुद्गलैरिति - पुद्गलैः शरीरधनवसन भोजनस्वजनादिमि:, पुद्गलाः शरीरादयः पुद्गलोपचयरूपां तृप्तिं यांति । स्वरूपास्वादनेन तृप्तिः पुनः उपदिशति ज्ञानिनः अनेकांतानंतस्वपरपदार्थपरीक्षादक्षस्य तदुम्रांतिजन्याभिमानं परतृप्तिसमा - रोप, परैः पुद्गलैः तृप्तिः परतृप्तिः परतृप्तौ समारोपः आत्म
For Private And Personal Use Only