________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
स्पर्शरसवर्णगंधशब्दैः विषयैः किं ? न किमपि, यः स्वरूपानुभवी सविमावहेतुमूतान् इंदियविषयान् नावगच्छति, कयंमूता स्वगुणैः तृप्तिः ? आकालं सर्वमप्यनागतं कालं अविनश्वरी विनाशरहिता सहजत्वेन नित्या इत्यर्थः, स्पर्शज्ञानवतः यैः शब्दादिमिः इत्वरी अल्पकालीया औपचारिकी तृप्तिर्भवेत् तैः विषयैः परविडासैः किं ? न किमपि परविलासा बंधहेतव एव । अब भावना-अनेकशो मुक्ता एते तथापि नाप्तं आत्मस्वरूपं, न च ते सुखदेतवः किंतु सुखत्वबुदिरेव कृतका, तेन तद्विषयामिसुखनैव न स्वरूपरसिकानां अत आत्मगुणैस्तृप्तिर्विधेया ॥ २ ॥
तामेव भावयति । या शान्तेकरसास्वादाद्, भवेत्तृतिरतीन्द्रिया । सान जिलेन्द्रियद्वारा, षड्रसास्वादनादपि ॥३॥ ___ व्या० या शान्तैकेति, या तृप्तिः अतीन्द्रिया इंद्रियविषयग्रहणरहिता शाम्यरसास्वादनाद् भवेत् लमेत सा तृप्तिः पडसास्वादमात् तिक्ताम्लमधुरकषायकदक्षाररसभोजनात जिह्वेन्द्रियद्वारा रसनेंद्रियद्वारा न भवति, रसनेंद्रियेण पौगलिकरसानुभवः, आत्मा घ स्वरूपानुभवी पुद्गलगुणानां ज्ञाता, न भोक्ता, पुद्गलगुणा अभोज्या एव मोहोदयात् आहारसंज्ञातः रसास्वादनं न स्वरूपतः, स्वरूपं च ज्ञानाइभवलक्षणं अतः आत्मानुभवा तृप्तिः न पौळिकी इति ॥३॥ संसारे स्वप्रवन्मिथ्या, तृप्तिः स्यादाभिमानिकी । तच्या तु भ्रान्तिशून्यस्य, सात्मवीर्यविपाककृत् ॥४॥
For Private And Personal Use Only