________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२६३ व्या०-चचोनुष्ठानत इति-वचनं अहंदाज्ञा, तदनुयायिनी क्रिया धर्महेतुः, यतः
प्रशांतचित्तेन गमीरभावेनैवाहता सा सफला क्रिया च । अंगारवृष्टेः सहसा न चेष्टा, नासंगदोषैकगुणप्रकर्षा ॥१॥
विषांगारान्योन्यानुष्ठानत्यागेन श्रीमद्वीतरागवाक्यानुसारतः उत्सर्गापवादसापेक्ष्यरूपा क्रिया वचनानुष्ठानक्रियाकरणतः असंगक्रिया संगति संयोगितां अंगति-प्राप्नोति, वचनक्रियावान् अनुक्रमेण असंगक्रियां एवं निर्विकल्पनिष्प्रयासरूपां क्रियां प्राप्नोति, सा एव असंगक्रिया एव ज्ञानक्रिया, एवं अभेदभूमिः ज्ञेया असंगक्रिया भावक्रिया शुद्धोपयोगशुद्धवीर्योल्लासतादात्म्यतां दधाति, ज्ञानवीर्यैकत्वं ज्ञानक्रिया-अभेदः इत्यनेन यावद् गुणपूर्णता न तावत् निरनुष्ठाना क्रिया करणीया, नहि तत्वज्ञाने क्रिया निषेधिका, किंतु क्रियादिशुद्धरत्नत्रयीरूपवस्तुधर्मसाधनकारणेन धर्मः, धर्मत्वं आत्मस्थमेव । उक्तं च श्रीहरिभद्रपूज्यैः दशवकालिकवृत्तौ “धर्मसाधनत्वाद् धर्म इति" अतो द्रव्यक्रियां धर्मत्वेन गृहंति तत्कारणे कार्योपचार एवं न्याय्यः, एतत्श्रद्धानविकलानां क्रिया न धर्महेतुः।
बहुगुणविज्जानिलओ, उस्सुत्तभासी तहावि मुत्तव्यो । जह पवरमणीजुत्तो, विग्धको विसहरो लोए ॥ १ ॥
इति षष्टिशतप्रकरणे। तथा च आचासंगे "भयविचिकित्सायां न संयम इति, अतो निमित्तहेतुत्वेन क्रिया निरनुष्ठाना करणीया इयं असंगक्रिया, सा अनाहतपिच्छिला स्वाभाविकानंदामृतरसार्दा, अत आत्मतत्वावबोधानंदोत्सुकैर्निरनुष्ठाना सत्प्रवृत्त्यसत्प्रवृत्तिपरियागरूपा किया द्रव्यतो भावतः स्याद्वादस्वगु
For Private And Personal Use Only