________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृप्यष्टकम्.
णानुयायिवीर्यप्रवृद्धि-अभिनवगुणवृद्धिरूपा संयमस्थानारोहणतत्त्वैकरूपा क्रिया प्रतिसमयं करणीया, साध्यसापेक्षत्वेन, अत एव "ज्ञानक्रियाभ्यां मोक्षः" इति निर्धारणीयं द्रव्यकियोद्यतो भावक्रियावान् भवति ततश्च स्वरूपास्पदीभवति इति श्रेयः ॥८॥
इति क्रियाष्टकम् ॥९॥
॥ अथ तृप्त्यष्टकम् ॥ क्रियावंतो हि कदाचिन्मदलोभाविष्टाः सदभ्यासं निष्फलीकुर्वति, तेन कषायत्यागरूपपूर्वकं स्वरूपभोगोत्पन्नतृप्तिरूपं अष्टकं निरूप्यते । तत्र तृप्तिर्नामादिभेदाच्चतुर्धा-तत्र नामतृप्तिः जीवस्य अजीवस्य तृप्तिरिति नाम क्रियते, शब्दोच्चारणरूपा च, स्थापनातृप्तिः अक्षरन्यासरूपा, द्रव्यतृप्तिः आगमतः तत्पदार्थज्ञोऽनुपयुक्तश्च नोआगमतो ज्ञशरीरभव्यशरीतद्व्यतिरिक्तभेदात् तत्र तद्व्यतिरिक्ता द्रव्येण आहारधनोपकरणा तृप्तिः भावतृप्तिः आगमतः तत्पदार्थज्ञोपयुक्तश्च नोआगमतः स्वरूपज्ञानानंदपूर्णस्य सहजात्मानुभवाविच्छिन्नस्य भवति, नैगमे जीवाजीवात् तृप्तिः, संग्रहव्यवहाराभ्यां ग्रहणयोग्यद्रव्यप्राप्ती, ऋजुसूत्रेण इप्सितसंपत्ती, शब्दादिनयैस्तु स्वस्वरूपनिरावरणपूर्णाविनभोक्तत्वेन तृप्तिः । इयं च पद्धतिः ओवनियुक्तिवृत्तिगताहिंसानयवद्भावनीया, अत्र कारणतो नामादिनिक्षेपत्रिकनैगमादिनयसक्ता, वस्तुतो भावनिक्षेपशब्दादिनयरूपा एव ग्राह्या सा च साधनकालेऽपवादोद्भवा सिद्धत्वे उत्सर्गोद्भवा ग्राह्या । तामेवाहपीत्वा ज्ञानामृतं भुक्त्वा, क्रियासुरलताफलम् । साम्यताम्बूलमास्वाद्य, तृप्तिं याति परां मुनिः ॥१॥
७६
For Private And Personal Use Only