________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
रायोदयेन च तपःश्रुतादिलाभः प्रज्ञापनासूत्रतः ज्ञेय इति, ज्ञानावरणदर्शनावरणदर्शनमोहचारित्रमोह-अंतरायक्षयोपशमतः शुद्धधर्मप्रारभावार्थ या क्रिया क्रियते सा आत्मगुणप्रकाशकरी. भवति ॥६॥
पुनस्तदेव दर्शयति । गुणवृद्ध्यै ततः कुर्यात्, क्रियामस्खलनाय वा । एकन्तु संयमस्थानं, जिनानामवतिष्ठते ॥७॥
व्या०-गुणवृद्धयै इति-ततः स्वधर्मप्राग्भावहेतुत्वात् क्रियां सत्यवृत्तिं कुर्यात्, किमर्थ ? गुणवृद्धयै, गुणा ज्ञानादयः तेषां वृद्धिः तस्यै, गुणमोल्लासार्थमिति नत्वाहारादिपंचदशसंज्ञानिमित्त पुनः अस्खलनाय अप्रतिपाताय क्रियारहितः साधकत्वे अवस्थातुमशक्तः, यतो वीर्यस्य चापल्यं तच्च कियावतः सक्रियानियुक्तं प्रतिपाताय न भवति, अन्यथा च अनादिप्रवृत्तिप्रवृत्तः स्खलनाय भवति, क्रियया उत्तरोत्तरस्थानारोहणं च श्रूयते आगमे, तथा च एकं अप्रतिपातिसंगमस्थानं जिनानां क्षायिकज्ञानं चारित्रवतां एकं पूर्णस्वरूपैकत्वरूपं स्थानं अवतिष्ठते नान्यस्य; अतः साधकेनामिनवगुणवृदयर्थ क्रिया करणीया, अत एव वन निवसंति निग्रंथाः चैत्ययात्राद्यर्थ गच्छंति नंदीश्वरादिषु, कायोत्सर्गयंति शरीरं, आकुंचंति विग्रहं वीरासनेन संलेखयंत्यनशनोत्सुका गृहंति परिहारविशुदिजिनकल्पाद्यमिग्रहव्यूहम् ॥ ७ ॥ वचोऽनुष्ठानतोऽसङ्गा, क्रिया सङ्गतिमङ्गति । सेयं ज्ञानक्रियाभेद-भूमिरानन्दपिच्छला ॥८॥
For Private And Personal Use Only