________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
क्रियाष्टकम्.
रिवादाक् चारित्राचारसेवना, परमशुक्लध्यानं यावत् तपआचारसेवना, सर्वसंवरं यावत् वीर्याचारस्य साधनाऽवश्यंभाविनी, नहि पंचाचारमंतरेण मोक्षनिष्पत्तिः, दर्शनाद्धि स्वगुणानां प्रवृत्तिः क्रियादर्शनादिगुणविशुद्धयर्थ "तन्निमित्तमवलंब्य प्रवर्तनं आचारः" इत्यतो गुणपूर्णतानिष्पत्तेः अर्वाक् आचरणा करणीया, आच रणातः गुणनिष्पत्तिः भवत्येव, पूर्णगुणानां तु आचरणा परोपकाराय इति सिद्धः अत एव उच्यतेज्ञानी क्रियापरः शान्तो, भावितात्मा जितेन्द्रियः। स्वयं तीर्णो भवाम्भोधेः, परांस्तारयितुं क्षमः॥१॥
व्या०-ज्ञानीति-ज्ञानी यथार्थतत्त्वस्वरूपावबोधी यदा क्रिया साधनकारणानुयायियोगप्रवृत्तिरूपा स्वगुणानुयायिवीर्यप्रवृत्तिरूपा तस्यां तत्परः उद्यतः, पुनः शांतः कषायतापरहितः, भावितात्मा भावितः शुजस्वरूपरमणमयः आत्मा यस्य स भावितात्मा जितेंद्रियः पराजितेंद्रियव्यापारः भवसमुद्रात् स्वयं तीर्णः पारंगतः, परान् आश्रितान् उपदेशदानादिना तारयितुं क्षमः समर्थो भवति, यो हि सम्यग्दर्शनज्ञानचारित्रपरिणतः आत्मारामी आत्मविश्रामी आत्मानुभवमग्नः स स्वयं संसारात निवृत्तः तत्सेवनपरान् निस्तारयति, अत्र द्रव्यज्ञानं भावनारहितं वचनव्यापारमनोविकल्परूपं संवेदनज्ञानं यावत्, तच्च भावज्ञानं तत्त्वानुभवरूपोपयोगस्य कारणं, द्रव्यक्रिया योगव्यापारात्मिका सापि भावनियायाः स्वगुणानुयायिस्वरूपप्रवृत्तिरूपायाः कारणं, अत्र 'ज्ञानस्य फलं विरतिः तेन ज्ञानं विरतिकारणं । उक्तं च-तत्त्वार्थटीकायां "दर्शनज्ञाने चारित्रस्य कारणं, चारित्रं मोक्षकारणं" । उत्तराध्ययनेऽपि
For Private And Personal Use Only