________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२५९
ता दंसणिस्स नाणं, नाणेण विना न हुंति चरणगुणा । अगुणिस्स नत्थि मुक्खो, नत्थि अमुक्खस्स निवाणं ॥ १ ॥ इति अतः ज्ञानं क्रियायुक्तं हिताय नैकमेवेत्याह-क्रियाविरहितं हन्त !, ज्ञानमात्रमनर्थकम् । गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ॥२॥
व्या० - क्रिया इति । क्रियाविरहितं क्रिया साधनप्रवृत्तिरूपा तया विरहितं ज्ञानमात्रं संवेदनज्ञानं अनर्थकं न मोक्षरूपकार्यसाधकं । तत्र दृष्टांतः पथज्ञोऽपि मार्गज्ञाता अपि गतिं विना चरणविहारक्रियां विना ईप्सितं इच्छितं नगरं न आप्नोति चरणचंक्रमणेनैव ईप्सितनगरप्राप्तिः इति 'नाणचरणेण मुख्खो इति वचनात् ।
सन्नाणनागोवगए महेसी, अणुत्तरं चरिउं धम्मसंचयं । अणुत्तरे नाणधरे जसंसी, उभासई सूरिएवंतलिरके ॥ १ ॥ ॥ इति उत्तराध्ययने ॥ २॥ पुनस्तदेव द्रढयन्नाह - स्वानुकूलां क्रियां काले, ज्ञानपूर्णोऽप्यपेक्षते । प्रदीपः स्वप्रकाशोऽपि, तैलपूर्त्यादिकं यथा ॥ ३ ॥
व्या० - स्वानुकूलांमिति - ज्ञान पूर्णोऽपि स्वपरविवेचनविशिष्टो पि काले अवसरे कार्यकरणक्षणे स्वानुकूलां तत्कार्यकरणरूप क्रियां अपेक्षते, तत्त्वज्ञानी सम्यग्ज्ञानी प्रथमं संवरकार्यरुचि देशविरतिसर्वविरतिग्रहणरूपां क्रियां आश्रयति, पुनः चारित्र मुक्तोऽपि तत्त्वज्ञानी केवलज्ञानकार्यनिष्पादनरसिकः शुक्कुध्यानारो
७१
For Private And Personal Use Only