________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
॥ अथ क्रियाष्टकम् ॥ ९॥
परभावत्यागकरणं एव साधका क्रिया, अतः क्रियाष्टकं निरूप्यते, क्रियते आत्मकर्तृत्वेन सा क्रिया, कर्तुः द्रव्यस्य प्रवृत्तिः, स्वरूपाभिमुखदर्शनज्ञानोपयोगता ज्ञानं, स्वरूपाभिमुखवीर्यप्रवृत्तिः क्रिया, "ज्ञानक्रियाभ्यां मोक्षः" तत्र ज्ञानं स्वपरावभासनरूपं, क्रिया स्वरूपरमणरूपा, तत्र चारित्रवीर्यगुणैकत्वपरिणतिः क्रिया सा साधका, अत्र अनादिसंसारे अशुद्धकायिक्यादिक्रियाव्यापारनिष्पन्नः संसारः स एव विशुद्धसमितिगुप्त्यादिविनयवैयावृत्यादिसत्क्रियाकरणेन निवर्तते, अतः संसारक्षपणाय क्रिया संवरनिरात्मिका करणीया, नामस्थापना सुगमां द्रव्यक्रिया शुद्धा अशुद्धा च, तत्र शुद्धा स्वरूपानुयायियोगप्रवृत्तिरूपा, अशुद्धा कायिक्यादिव्यापाररूपा, भावक्रिया वीर्यप्रवृत्तिरूपा, पुद्गलानुयायि - औदारिकादिकायव्यापारसन्मुखा अशुद्धा, शुद्धा पुनः स्वगुणस्वपरिणमनत्वनिमित्त वीर्यव्यापाररूषा क्रिया भावक्रिया, तत्र क्रिया संकल्पः नैगमेन ससंग्रहेण सर्वे संसारजीवाः सक्रिया उक्ताः, व्यवहारेण शरीरपर्याप्त्यनंतर क्रिया, ऋजुसूत्रनयेन कार्यसाधनार्थं योगप्रवृत्तिमुख्यवीर्य परिणामरूपादिक्रिया, शब्दनयेन वीर्यपरिस्पंदात्मिका, समभिरूढनयेन गुणसाधनारूपसकल कर्त्तव्यव्यापाररूपा, एवंभूतनयेन तचैकत्ववीर्यतीक्ष्णतासाहाय्यगुणपरिणमनरूपा । अत्र साधकस्य साधनक्रियाया अवसरः 'नाणचरणेण मुख्खो' तेन चरणगुणप्रवृत्तिस्वरूपग्रहणपरभावत्यागरूपा क्रिया मोक्षसाधका, अतः ज्ञाततश्वेन तथ्वसाधनार्थं सम्यक्क्रिया करणीया, तदुपदेशः क्षायिकसम्यक्त्वं यावत् निरंतरं निःशंकाद्यष्टदर्शनाचारसेवना, केवलज्ञानं यावत् कालविनयादिज्ञानाचारता, निरंतरं यथाख्यात चा
33
६९
For Private And Personal Use Only
२५७