________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५४
गुरुत्वं स्वस्य नोदेति, शिक्षासात्म्येन यावता । आत्मतत्त्वप्रकाशेन, तावत्सेव्यो गुरुत्तमः ॥ ५॥
त्यागाष्टकम्
Acharya Shri Kailassagarsuri Gyanmandir
व्या० गुरुत्वमिति - - यावता अस्य साधकस्य गुरुत्वं स्वस्य आत्मन एव न उदेति न जायते, केन ? शिक्षासात्म्येन स्वयमेव स्वस्य शिक्षादायको न भवति, पुनः केन ? आत्मतत्त्वप्रकाशेन आत्मधर्मप्राग्भावेन संशयविपर्ययरहितशुद्धात्मतत्त्वप्रकाशको यावन्न भवति तावत् अयं उत्तमस्वपरोपकारी रत्नत्रयीपरिणतः द्रव्यभावगुरुगुणोपेतो गुरुः तवकथकः सेव्यः, हे-गुरो ! अतीतानंतकालाप्राप्तं स्वात्मधर्मनिर्द्धारभासनरमणं तत्तवोपदेशांजनेन प्राप्तं आत्मानुभवसुखं भुक्तं अहो गुरूणां कृपा ! ! यया परमामृतास्वादनं भवति, अतो यावत् पूर्णानंदः तावत् तव चरणौ शरणं । उक्तं च-
नाणस्स होइ भागी, थिरयरो दंसणे चरित्ते अ । धन्ना आवकहाए, गुरुकुलवासं न मुंचति ॥ १ ॥
अत एव परित्यज्य चक्रवर्त्तित्वं, इम्य-श्रेष्ठित्वं, गृह्णति श्रमणत्वं, सेवंते गुरुचरणारविंदान् तच्वजिज्ञासापटवः ॥ ५ ॥ ज्ञानाचारादयोऽपीष्टाः, शुद्धस्वस्वपदावधि | निर्विकल्पे पुनस्त्यागे, न विकल्पो न च क्रियाः ॥६॥
व्या० ज्ञानाचारा० इति -- ज्ञानाचारादयः कालविनयादिनिःशंकादिसमितिगुप्त्यादय आचाराः, आचर्यन्ते गुणवृद्धये वे आचाराः शुद्धस्वस्वपदावधि, शुद्धः स्व इति स्वकः तस्य पदस्य अवधिः मर्यादा तावत् इष्टाः, शुभोपयोगदशायां सविकल्पतां यावत् आचारा इष्टा वल्लभाः, यदा निर्विकल्पे चिंतनारहिते
६६
For Private And Personal Use Only