________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२५५
त्यागे विकल्पो न, इदं त्याज्यं, इदं ग्राह्य इति विकल्परहिते त्यागे निःप्रयासस्वरूपैकत्वरूपे विकल्पचिंतना न क्रिया बलवीर्यादिरूपापि तत्तत्र स्वरूपावलंबिगुणवतने वीर्यस्य स्वक्षेत्रावगाढत्वेन न चलनता परभावग्रहणे तु परग्राहकत्वेनोन्मुखवीर्यप्रवृत्ती कार्याम्यासतो विषमीकृतवीर्यत्वेन चलनारूपा क्रिया अस्ति, अतः स्वरूपमना स्वस्वप्रदेशव्याप्तगुणानां तज्जदेशगतवीर्यसहकारवृत्या प्रदेशांतरागमनरूपा वीर्यचलनाक्रिया न द्विधा, बाधका साधका चैव, तत्र मिथ्यात्वासंयमकषायप्रेरितचेतनापरिणामाः परामिलाषकत्वेन परिग्रहणाय प्रेरयंति वीर्य, सा आभ्यंतरा कुदेवसेवनादिरूपा बाह्यक्रिया बंधहेतुत्वेन बाधका भण्यते, या तु शुनदेवगुरुसेवनाश्रवनिरोधसंवरपरिणमनरूपा · कर्मबंधरोधरूपासा साधका उक्ता । निर्विकल्पे ध्यानसमाधौ बाधकक्रिया भावसाधकबाह्यक्रिया-अभावः गुणानुयायिवीर्यपरिणमनरूपा अभ्यंतरा क्रिया अस्ति, तथापि ग्रहणत्यागरूपक्रियाऽभावे न क्रिया इति उक्तं ॥६॥ योगसन्न्यासतस्त्यागी, योगानप्यखिलांस्त्यजेत । इत्येवं निर्गुणं ब्रह्म, परोक्तमुपपद्यते ॥७॥
व्या०-योगसंन्यासत इति त्यागी बाह्याभ्यंतरसमस्तपरभावत्यागी योगसंन्यासतो योगरोधनत आवर्जीकरणात् ऊर्च अखिलान् समस्तान् योगान् वीर्यपरिस्पंदरूपान् त्यजेत् अयोगी भवति इति समस्तयोगरोधेन परोक्तं परैः उत्कृष्टैः सर्वज्ञैः उक्तं निवे. दितं निर्गुणं योगादिरहितं सत्वरजस्तमोरूपगुणरहितं ब्रह्म आत्मस्वरूपं उपपद्यते शुद्धचिन्मयं निष्पद्यते, योगरोधस्वरूपं च वस्तुत इति संसर्गिकगुणरहित इति कथनेन आत्मा सदैव निर्गुण इति निवारयन्नाह ॥७॥
For Private And Personal Use Only