________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
त्यागाष्टकम्
व्या०-कांता मे इति-तत्त्वज्ञानी आभ्यंतरसंबंधे रतिं करोति तदाह-मे मम स्वरूपसाधनतत्परस्य समता एव एका कांता वल्लभा भोगयोग्या, इत्यनेन तत्त्वावलंबनीभूतानां समता वनिता, समक्रियाः साधवः मे ज्ञातयः स्वजना इति कृत्वा बाह्यवर्ग पुत्रकलत्रादिकं त्यक्त्वा धर्मसन्न्यासवान् गृहस्थधर्मत्यागवान् भवेत्, औदयिकसंपदं विहाय क्षयोपशमजां स्वीयां साधनसंपदां भवतत्यनादिप्रसंगादिविभावसंपदां गृह्णन् इच्छन् भुंजन् भवाटव्यां परिप्रमति, स एव सम्यग्ज्ञानदर्शनेन चारित्रसाधनधर्मपरिणतो मोक्षसाधको भवति ॥३॥ धर्मास्त्याज्याः सुसङ्गोत्थाः, क्षयोपशमिका अपि । प्राप्य चन्दनगन्धाभं, धर्मसन्न्यासमुत्तमम् ॥ ४॥ - ब्या०-धर्मा इति-क्षयोपशमका भेदरत्नत्रयीरूपा धर्माः सुसंगोत्थाः सत्संगदेवगुरुप्रसंगसंभवा अपि धर्माः त्याज्या धर्मसन्न्यासं उत्तमं क्षायिकाभेदरत्नत्रयीरूपं स्वधर्मपरिणामं सहजपरिणमनरूपं प्राप्य लब्ध्वा कथंभूतं धर्मसंन्यासं ? चंदनगंधाभं चंदनगंधतुल्यं, तिलादौ हि सुगंधता संगसंभवा पुरुषादिनिमित्तसंभवा, चंदने सुगंधता सहजरूपा तादात्म्यत्वेन सहजेन उत्था उत्पन्नाः सहजोत्था अनेन सहज एव आत्मनि धर्मपरिणामः स्वरूपत्वात् सहजः स च अशुझतया आवृतत्वेन गुरुनिमित्तात् प्राग्भावं लभते, तब प्रथमं सविकल्पयुतजिज्ञासादिनिमित्तसापेक्षं सम्यग्दर्शनादिकं प्रकटयति, तेनैव वर्द्धमानेन विकल्पं अभेदरत्नत्रयीरूपं निमित्ताद्यपेक्षां विना गुणपरिणामरूपं सहजधर्मपरिणामं परिणयति तदा सविकल्पा साधना त्याज्या एव भवति। उक्तं च योगदृष्टिसमुच्चये-"द्वितीयाऽपूर्वकरणे प्रथमतात्विको भवेत्
For Private And Personal Use Only