________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२४७.
विवेकद्विपहर्यक्षः, समाधिधनतस्करैः।। इन्द्रियै जितो योऽसौ, धीराणां धुरि गण्यते॥८॥
व्या०-विवेकेति-विवेकः स्वपरविवेचनं, स एव द्विपो गजः, तद्विवाते हर्यक्षतुल्यैः सिंहोपमैः, समाधिः स्वरूपानुभवलीलाविश्रांतिः, स एव धनं सर्वस्वं, तद्हरणे तस्कराभैः, एवं इंद्रियैः यः असौ पुरुषो नमि-गजसुकुमालादिना सह स न जित इंद्रियाधीनो न जातः स धीराणां धुरि आदौ गण्यते श्लाध्यते । उक्तं चधन्यास्ते ये विरक्ता गुरुवचनरतास्त्यक्तसंसारभोगा योगाभ्यासे विलीना गिरिवनगहने यौवनं ये नयन्ति। तेभ्यो धन्या विशिष्टाः प्रबलवरवधूसङ्गपञ्चाग्नियुक्ता नैवाक्षौधे प्रमत्ताः परमनिजरसंतत्त्वभावंश्रयन्ति॥१॥
अहह !! पूर्वभवास्वादितसाम्यसुखस्मरणेन प्रणयति अनुत्तरविमानसुखलवसत्तमा इंद्रादयो हि विषयस्वादत्यागासमर्था लुठंति भूपीठे मुनीनां चरणकमलेषु, अतः अनाद्यनेकशो भुक्तविषया वारणीयाः, तत्संगोऽपि न विधेयः, न स्मरणीयः पूर्वपरिचयः, प्रतिसमयं दुगछनीया एव एते संसारबीजभूता इंद्रियविषयाः, अत एव निर्यथा निवर्तयंति कालं वाचनादिना तत्त्वावलोकनेहादिषु । उक्तं च-"निम्मलनिकालनिस्संगसिद्धसम्भावफासणा कईया ” इत्यादिरुच्या रत्नत्रयपरिणताः तिष्ठति स्थविरकल्पजिनकल्पेषु, सर्वैरपि भन्यैः एतदेव विधेयम् ॥ ८॥
॥ इति ग्याल्यात इंद्रियजयाष्टकं सप्तमम् ॥
For Private And Personal Use Only