________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
इन्द्रियजयाष्टकम्
सत्तागतं सम्यग्दृष्टि-देशविरति-सर्वविरतानांसाध्यरूपं निर्विकल्पसमाधिः शुक्लध्यानस्य फलरूपं अर्हत्सिद्धानां परमं स्वरूप केवलज्ञानं धनं स्वीयं सहजं विस्मृत्य उपाधिकारोपितमृदूपलरूपे धने मुह्यन्ति मूढाः ॥ ५ ॥ पुरः पुरः स्फुरत्तृष्णा-मृगतृष्णानुकारिषु । इन्द्रियार्थेषु धावन्ति, त्यक्त्वा ज्ञानाऽमृतं जनाः॥६॥
व्या० पुरः पुर इति--जड़ा मूर्खाः स्याद्वादवस्तुस्वरूपोपलंभरहिताः ज्ञानामृतं ज्ञानं बोधः तदेव अमृतं आविनाशिपदहेतुत्वात्, तत् त्यक्त्वा इन्द्रियार्थेषु रूपरसगंधस्पर्शशब्दलक्षणेषु धावन्ति, भोगाभिलाषिण आतुरा भवंति, तदर्थ यत्नः, तदर्थं दंभविकल्पकल्पना, तदर्थ कृष्यादिकर्म करोति, कथंभूतेषु इन्द्रियार्थेषु ? पुरः पुरः स्फुरत्तृष्णामृगतृष्णानुकारिषु, अये स्फुरंती या तृष्णा भोगपिपासा तया, मृगतृष्णा जलमांतिः तदनुकारिषु तत्सदृशेषु, यथा-मृगतृष्णाजलं. न पिपासापहं प्रांतिरेव एवमिंद्रियभोगा न सुखं सुखभ्रांतिरेव तत्त्वविकलानां ॥ ६ ॥ पतङ्गभृङ्गमानेभ-सारङ्गा यान्ति दुर्दशाम् । एकैकेन्द्रियदोषाच्चेद्,दुष्टैस्तैः किं न पञ्चभिः ? ॥७॥ ___व्या०-पतंगभंगमीनेति-रूपासक्तः पतंगः, रसासक्तो मीनः, भंगो भ्रमरः, स्पर्शा सक्त इभो गजः, शब्दासक्तो मृगः सारंगः, एते एकैकेंद्रियदोषाद् दुर्दशां दुष्टां दीनां दशा अवस्थां यांति, तदा तैः पंचभिः दुरैः किं न इति किं दुःखं न भवति ? भवत्येव, अत एव महाचक्रधरा वासुदेवा मंडलिकादयः कंडरिकादयश्च विवयव्यामोदितचित्ता नरके दीनावस्थां प्राप्ताः, किं बहुना १ मा कुरुक्ष्वं विषयविषसंगमम् ॥ ७॥
For Private And Personal Use Only