________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
विसयविसं हालाहलं, विसयविसं उकडं पोयं । ताणे विसयविसया पिव,विसयविसविसुईया हुति।। कामभोगग्रहो दुष्टः, कालकूटविषोपमः। तव्यामोहनिवृत्त्यर्थ-मात्मभावोऽमृतोपमः ॥३॥ ___ अत आत्मानुभवनेन तृप्तिं कुरु ॥ ३ ॥ आत्मानं विषयैः पाशैर्भववासपराङ्मुखम् । इन्द्रियाणि निबनन्ति, मोहरोजस्य किङ्कराः ॥४॥
व्या० आत्मानमिति-भवः संसारः, तस्य वासो निवासः तत्र पराङ्मुखो निवृत्त उद्विग्नः, तं आत्मानं इन्द्रियाणि निबनन्ति, भववासदृढं कुर्वति, कैः १ विषयपाशैः विषया एव पाशाः तैः, एते मोहराजस्य किंकराः परिवारमूताः, उपमितमोहसुता जगद्व्यामोहकृत् रागकेशरी तत्प्रधानो विषयामिलाष इति भवमूलविषयपरित्यागो हिताय ॥ ४ ॥ गिरिमृत्नां धनं पश्यन् , धावतीन्द्रियमोहितः । अनादिनिधनं ज्ञानं, धनं पा न पश्यति ॥ ५॥ ___ठया० गिरिमृत्स्नामिति, मूझो गिरिमृत्तां भूधरमृत्तियां स्वर्णादिकां धनं पश्यन् , इन्द्रियमोहितो विषयासक्तो धावति इतस्ततः परिप्रमति, ज्ञानं धनं पार्श्वे समीपे न पश्यति, तदात्मा स्वलक्षणभूतं तत्त्वावबोधरूपं ज्ञानं धनं न पश्यति नावलोकयति, कथंभूतं ज्ञानं ? अनादिनिधनं अनादि आदिरहितं सत्तया अनिधनं अंतरहितं सत्ताविश्रांतिरूपं । उक्तं च--" केवलनाणमणंत, स भावरूवं तवं निरावरणं " सिद्धत्वेन अविनश्वरत्वात् निगोदावस्थां यावत् ज्ञानं अत्यंतबोधो महामोहोदयेऽपि
५७
For Private And Personal Use Only