________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४४
इन्द्रियजयाष्टकम् .
तृष्णाकुलस्यैव विषया रमणीयाः सा च अनाद्यभ्यासतः विषयप्रसंगेन वर्द्धते अत इंद्रियपरित्यागो युक्तः ॥ २॥
Acharya Shri Kailassagarsuri Gyanmandir
सरित्सहस्रदुः पूर - समुद्रोदरसोदरः । तृप्तिमान् नेन्द्रियग्रामो भव तृप्तोऽन्तरात्मना ॥३॥
6
व्या० - सरित्सहस्रेति - हे भव्य ! अयं इंद्रियग्रामः तृप्तिमान् न, कदापि तृप्तिं न लभते, यतः अभुक्तेषु ईहा, भुज्यमानेषु ममता, भुक्तपूर्वेषु स्मरणं, इति त्रैकालिकी अशुद्धा प्रवृत्तिः, इंद्रियार्थरक्तस्य तेन तृप्तिः, कथंभूत इंद्रियग्रामः ? सरित्सहस्रदुः पूरसमुद्रोदरसोदरः सरितां सहस्रं तेन दुः पूर्यते समुद्रस्योदरः तस्य सोदरः, सहस्रशो नदीपूरैः दुःपूरः अपूर्यमाणो यः समुद्रस्य जलनिधेः उदरः तस्य सोदरो भ्राता अतः कारणात् पूर्यमाणोऽपि दुःपूर इंद्रियाभिलाषः स शमसंतोषेणैव पूर्यते, तदर्थं हितोक्तिः भो उत्तम ! अंतरात्मना आत्मनः अंतर्गतेन स्वरूपेण तृप्तो भव, स्वरूपावलंबनमंतरेण न तृष्णाक्षयः, अयं हि संसारचक्रक्रोडीभूतपरभावान् आत्मतया मन्यमानः, "शरीरमेवात्मा" इति बहिर्भावे कृतात्मबुद्धिः बहिरात्मा सन् अनंतपुद्गलावर्त्तकालं मोहावगुंठितः पर्यवति स एव निसर्गाधिगमाभ्यां स्वरूपपररूपविभजनेन " अहं शुद्धः " इति कृतनिश्चयः सम्यग्ज्ञानदर्शनचारित्रात्मकमात्मानमात्मत्वेन जानन् रागादीन् परत्वेन निर्धारयन् सम्यग्रहम् अंतरात्मा उच्यते, स एव सम्यग्दर्शनलाभकाले निर्धारिततध्वस्वरूपपूर्णप्राप्तौ परमात्मा परमानंदमयसंपूर्णस्वधर्म प्राग्भावभोगी सिद्धो भवति, तेन मिथ्यात्वमपहाय आत्मस्वरूपभुंजनेन उच्छिष्टमलजंबालोपमान् विषयान् त्यजति --
५६
""
For Private And Personal Use Only