________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२४३
तां कांक्षसि अमिलपसि, तदा इंदियजयं कर्तुं स्फारपौरुषं देदीप्यमानं पराक्रम स्फोरय प्रवर्त्तयस्व, अतो महाकदर्थनारूपाद् भवकूपादुद्विग्नः शुद्धचिदानंदाभिलाषी जीवो हालाहलोपमान इंद्रियविषयान् त्यजति । उक्तं च उत्तराध्ययनेसल्लं कामा विसं कामा कामा आसीविसोपमा। कामे पत्थेमाणा अकामा जंति दुग्गई ॥१॥ वृद्धास्तृष्णाजलापूर्णैरालवालेः किलेन्द्रियैः। मूर्छामतुच्छां यच्छन्ति, विकारविषपादपाः ॥ २॥
व्या०-वृद्धा इति । किल इति सत्ये, इंद्रियैः विषयभोगरसिकैः आलवालैः वृद्धा महत्त्वमापन्नाः, विकारविषपादपा विकारा एव विषवृक्षा अतुच्छां अत्यंतां मूछों यच्छंति मुह्यतां ददति, इत्यनेन अनादिस्वरूपयुतानां परमावरमणाभोग्याभोग्याचेतनानां विकारविषवृक्षा इंद्रिः स्पर्शनादिमिः विषयग्राहकैः प्रवर्द्धमानाः महामोहं कुर्वति, किंभूतैः आलवालैः ? तृष्णाजलापूर्णैः तृष्णा लोभवैकल्यं, लालसा, तद्रूपेण जलेन आपूर्णैः मृतैः इत्यर्थः तृष्णाप्रेरिता एव इंद्रियाश्वा धावंति, तृष्णाया आनंत्यंसुवन्नरुप्पस्स य पवया, भरे सिया हु कैलाससमा असंखया, नरस्स विलुद्धस्स न हुंति किंचि, इच्छा हु आगाससमा अणतया ॥१॥ वारमणंतं भुत्ता वंता चत्ताय धीरपुरिसेहि। ते भोगा पुण इच्छइ भोत्तुं तिण्हाउलो जीवो ॥२॥
For Private And Personal Use Only