________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२४१
गजेत् स्फुरद ज्ञानं स्वपरावभासनरूपं तद्रपा गजाः तैः उत्तुंगा उन्नता रंगत् नृपतु ध्यानं तद्पाः तुरंगमा अश्वा यासु ताः, इत्यनेन भासनगजध्यानाश्वशोभिता राज्यसंपदो निग्रंथस्वरूपभूपस्य जयंति, अतः समतास्पदमुनीनां महाराजत्वं सदैव जयति, अतः शमाभ्यासवता भवितव्यं इत्युपदेशः ॥८॥ इति व्याख्यातं शमाष्टकम् ॥६॥
अथ इन्द्रियजयाष्टकम् । शमांतरायकृत् इंद्रियाभिलाषः, तेन इंद्रियजयादेव शमावस्थानं, अत इंद्रियजयाष्टकं विस्तार्यते । तत्र इंद्रो जीवः, सर्वपरमैश्वर्ययोगाद, तस्य लिंगमिंद्रियं लिंगनात् सूचनात् प्रदर्शनादुपलंभाद् व्यंजनाच्च जीवस्य लिंगमिंद्रियं, इंद्रियविषयोपलंभातू ज्ञापकत्वसिद्धिः, तत्सिद्धौ ‘उवओगलक्खणो जीवो' इति जीवनसिमिः, द्विविधानि इंद्रियाणि द्रव्येद्रियाणि भावेंद्रियाणि च, तब द्रव्येद्रियं द्विविधं, निवृतींद्रियं उपकरणेंद्रियं च तत्र निवृतिः अंगोपांगानां निर्वृतानि इंद्रियद्वाराणि कर्मविशेषसंस्कृताः शरीरप्रदेशाः निर्वाणनामांगोपांगप्रत्यया उपकरणं बाह्यमाभ्यंतरं च निर्वृतिः तस्यानुपघातानुग्रहाभ्यामुपकरोति लब्धिः उपयोगस्तु भावेंद्रियं भवति लब्धिः तदावरणीय-मतिज्ञानावरणीय-श्रुतज्ञानावरणीय-चक्षुर्दर्शनावरणीय-वीर्यातरायकर्मक्षयोपशमजनिता, स्पर्शादिग्राहकशक्तिः लब्धिः स्पर्शादिज्ञानं उपयोगः स्पर्शादिज्ञानफलरूप उपयोगः । अब इंद्रियाणां वर्णादिज्ञानेन विषयता, किंतु ज्ञानमनानां तेषु वर्णादिषु मनोज्ञामनोज्ञेषु इष्टानिष्टतया मूत्वा इष्टामिमुख्यताऽनिष्टकंपनारूपा मोहपरिणतिः विषयता ज्ञानस्य सविषयत्वेन सिद्धानां स्वविषयताः, अतो रक्तद्विष्टतया प्रवर्त
31
५३
For Private And Personal Use Only