________________
Shri Mahavir Jain Aradhana Kendra
२४०
www.kobatirth.org
शमाष्टकम्.
इति शमतास्वादिनां नरेशभोगा रोगाः, चिंतामणिसमूहाः कर्करव्यूहाः, वृंदारका दारका इव भासते, अतः संयोगजा रतिर्दुःखं शमतैव महानंदः || ६ || शमसूक्तसुधासिक्तं येषां नक्तंदिनं मनः । कदापि ते न दह्यन्ते, रागोरगविषोर्मिभिः॥ ७ ॥
व्या०- - शमसूक्त इति - येषां महात्मनां मनः चित्तं शमः कषायाभावः चारित्रपरिणामः तस्य सूक्तानि सुभाषितानि तान्येव सुधा अमृतं तेन सिक्तं अभिषिक्तं नक्तंदिनं अहोरात्रं ते रागोरगविषोर्मिभी रागः अभिष्वंगलक्षणः स एव उरगः सर्पः तस्य विषस्य ऊर्मयः तैः शमतासिक्ता न दांते, जगजीवा रागाहिदष्टाः, विषोर्मिंचूर्मिंता, भ्रमंति इष्टसंयोग - अनिष्ट - वियोगचिंतया, विकल्पयंति बहुविधान् अग्रशौचादिकल्पनाकलोलान्, संगृह्णति अनेकान् जगदुच्छिष्टान् पुद्गलस्कंधान्, याचयंति अनेकान् धनार्जनोपायान् प्रविशंति कूपेषु, विशंति यानपात्रेषु, द्रव्याद्यहितं हितवत् मन्यमानाः, जगदुपकारितीर्थकरवाक्यश्रवणप्राप्तशमताधनाः स्वरूपानंद भोगिनः स्वभावभासनस्वभावरमण-स्वभावानुभवनेन सदा असंगमग्ना विचरंति आत्मगुणानंदनवने, अतः सर्वपरभावैकत्वं विहाय रागद्वेषविभावमपहाय शमताषत्त्वेन भवनीयम् ॥ ७ ॥ गर्जज्ञानगजोत्तुङ्ग - रङ्गद्ध्यानतुरङ्गमाः । जयन्ति मुनिराजस्य, शमसाम्राज्यसम्पदः ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
"
५२
व्या० - गर्जद्ज्ञानमिति, मुनिराजस्य शमसाम्राज्यसंपदो जयंति कथंभूताः संपदः १ 'गर्जज्ञानगजोत्तुंगरंगध्यानतुरंगमा;'
For Private And Personal Use Only