________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानसंगी टीका.
२३७
AAAAAAAANNNNNNNNNNANAM
व्या-आरुरुक्षुरिति, आरुरुक्षुः आरोहणेच्छु:, मुनिः भावसाधकः, प्रीतिभक्तिवचनरूपशुभसंकल्पेन अशुभसंकल्पान् वारयन् आराधको भवति, सिद्धयोगी तु रागद्वेषाभावेन उपशमी कृतार्थः, बायां क्रियां बाह्याचारप्रतिप्रत्तिं श्रयन् अपि अंगीकुवन् अपि शमादेव शुद्धचति शमात् क्रोधाभावात् शुद्धयति निर्मलीभवति, कथंभूतो मुनिः ? योगारूढः योगे सम्यग्दर्शनज्ञाबचारित्रे आत्मीयसाधनरत्नत्रयीलक्षणे आरूढः पुनः कथंभूतो मुनिः ? अंतर्गतक्रियः अंतर्गता वीर्यगुणप्रवृत्तिरूपा क्रिया यस्य सः अंतर्गतक्रियः, एवमभ्यंतरक्रियावान् स्नत्रयपरिणतः शमात् क्षमाया मार्दवार्जवमुक्तिपरिणतिपरिणतो निर्मलो भवति ॥३॥ ध्यानवृष्टेर्दयानद्याः, शमपूरे प्रसर्पति । विकारतौरवृक्षाणां, मूलादुन्मूलनं भवेत् ॥ ४॥ ___व्या०-ध्यानवृष्टेरिति ध्यानवृष्टेः ध्यानं धर्मशुक्लाख्यं, अंतमुहूर्त यावत् चित्तस्य एकत्रावस्थानं ध्यानं । उक्तं चअंतोमुहुत्तमित्तं, चित्तावत्थाणमेगवत्युमि । छउमत्थाणं झाणं, जोगनिरोहो जिणाणं तु ॥१॥ ___अत्र च निमित्तरूपे देवगुरुस्वरूपे अद्भुततादियुक्तचिचै. कत्वे धर्मध्यानं आज्ञाऽपायविपाकस्थानाख्यं, तब आज्ञाया निर्धारः सम्यग्दर्शनं आज्ञाया अनंतत्वपूर्वापराविरोधित्वादिस्वरूपे चमत्कारपूर्वकचित्तविश्रामः आज्ञाविचयधर्मध्यानं, एवं अपायादिकेष्वपि, निर्धारभासनपूर्वसानुभवचित्तविश्रांतिः ध्यानं एवं शुक्लेऽपि ईहग् ध्यानवृष्टेः मेघात दया--स्वपरभावपाण-आघातनरूपा भावदया, तद्बुद्धितल्लक्षणहेतुत्वात् स्वपरद्रव्यप्राणरक्षणानिर्विषयत्वेन .
४९
For Private And Personal Use Only