________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
शमाष्टकम्..
अनित्यादिभावनया विबुध्य अनुभवभावनया स्वरूपामिमुखयोगवृत्तिमध्यस्थ आत्मानं मोक्षोपाये युजन् भावनायोगः २ स एव पिंडस्थ-पदस्थ-रूपातीत-ध्यानपरिणतरूपैकत्वी ध्यानयोगी भण्यते ३ ध्यानबलेन भस्मीभूतमोहकर्मा तप्तत्वादिपरिणतिरहितः समतायोगी उक्तः ४ तथा योगाधीनकोदयाधीमा अनादिवृत्तिः जीवस्य तस्याः क्षयः अभावः स्वरूपवृत्तिः वृत्तिक्षययोगी उच्यते ५ एवं पंचयोगेषु समतायोगी साधने परिष्ट इति ज्ञानस्य पूर्णावस्था शमः ॥ १ ॥ अनिच्छन् कर्मवैषम्यं, ब्रह्मांशेन शमं जगत् । आत्माभेदेन यः पश्येदसौ मोक्षंगमी शमी ॥२॥ ___व्या०-अनिच्छन् कर्मेति, कर्म वैषम्यं ऊनाधिकत्वं अनिच्छन् गति-जाति-वर्ण-संस्थान-ब्राह्मण-क्षत्रियादि वैषम्य ज्ञानवीर्यक्षयोपशमकार्य वैषम्यं अनिच्छन् उदयत आवरणतःक्षयोपशमभेदे सत्यपि ब्रह्मांशेन चेतनालक्षणेन, अथवा द्रव्यास्तिक-अस्तित्व-वस्तुत्वसत्त्व-अगुरुलघुत्व-प्रमेयत्व-चेतनत्व-अमूर्त्तत्व-असंख्येयप्रदेशत्वपरिणत्या जगत् चराचरं आत्माभेदेन आत्मतुल्यवृत्त्या समानत्वेन यः पश्येत् सर्वजीवेषु समत्वं कृत्वा अरक्तद्विष्टत्वेन वर्तमानः असौ योगी मोक्षगामी सकलकर्मक्षयलक्षणावस्थां गच्छतीत्येवं शीलो भवति, यो हि सर्वजीवेषु जीवत्वतुल्यवृत्त्या रागद्वेषपरिणतिमपहाय आत्मस्वभावानुषंगी असौ योगी मोक्षंगमी भवति ॥२॥ आरुरुक्षुर्मुनिर्योगं, श्रयन् बाह्यक्रियामपि । योगारूढः शमादेव, शुद्धयत्यन्तर्गतक्रियः ॥३॥
४८
For Private And Personal Use Only