________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
प्रवचनानुसारिशुझस्वरूपरमणैकत्वं, आद्यनयचतुष्टये भावक्षमादिस्वरूपगुणपरिणमनहेतुः मनोवाकायसंकोच-विपाकचिंतन-तत्त्वज्ञान-भावनादिः, अंत्यनयत्रये क्षयोपशमक्षमादिः शब्दनयेन क्षपकश्रेणिमध्यवर्तिसूक्ष्मकषायवतः समभिरूढनयेन क्रोधादिशमः क्षीणमोहादिषु एवंभूतनयेन कषायशमः । अत्र भावना-चिंतास्मृतिविपाकभयादिकारणतः क्षयोपशमभावादिसाधनतः क्षायिकशमः साध्यः; एवं शमपरिणतिः करणीया आत्मनो मूलस्वमावत्वात् मूलधर्मपरिणमनं हि तेनैव कारणेन शुद्धात्मपदप्रवृत्तिः संगत्यागात्मध्यानसंवरीचंचरीकत्वं करणीयम्विकल्पविषयोत्तीर्णः, स्वभावालम्बनः सदा । ज्ञानस्य परिपाको यः, स शमः परिकीर्तितः॥१॥ ___व्या०-विकल्प इति, विकल्पः चित्तविभ्रमः, तस्य विषयो विस्तारः, तेन उत्तीर्णो निवृत्तः आत्मास्वादनतो वर्णादिषु निवृत्तविषयः स्वभावः अनंतगुणपर्यायसम्यगज्ञानदर्शनचारित्रस्वरूपः, तस्य आलंबनः स्वभावालंबन इत्यनेन आत्मस्वभावदर्शी; आत्मस्वभावज्ञानी, आत्मस्वभावरमणी, आत्मस्वभावविश्रामी, आत्मस्वभावास्वादी, शुद्धतत्त्वपरिणतः, ज्ञानस्य आत्मोपयोगलक्षणस्य यः परिपाकः प्रौढावसरः स शमः शमभावलक्षणः परिकीर्तितः, अत्र योगस्य पंचविधत्वं प्रोक्तं हरिभद्रपूज्यैः-अध्यात्मयोगः १ भावनायोगः २ ध्यानयोगः ३ समतायोगः ४ वृत्तिक्षययोगः ५, तत्र अनादिपरभावं औदयिकभावरमणीयताधर्मत्वेन निर्धार्य तत्पुष्टिहेतुक्रियां कुर्वन् अधर्म धर्मवृत्त्या इच्छन् प्रवृत्तः स एव निरामयः निस्संगःशुद्धात्मभावनाभावितांतःकरणस्य स्वभाव एव धर्म इति योगवृत्त्या अध्यात्मयोगः १ सर्वपरभावान्
४७
For Private And Personal Use Only