________________
Shri Mahavir Jain Aradhana Kendra
२३४
www.kobatirth.org
ज्ञानाष्टकम्.
व्या० - पीयूषमिति, असमुद्रोत्थं पीयूषं अमृतं, अनौषधं औषधरहितं रसायनं जरामरणनिवारकं, अनन्यापेक्षं अन्यत् परवस्तु तस्य अपेक्षया रहितं ऐश्वर्य 'आश्चर्यमिति पाठे आश्चर्य चमत्कारि ज्ञानं, स्वपरावभासनलक्षणं आहुः मनीषिणः पंडिता, इत्यनेन वस्तुतः मरणवारकं सर्वरोगमुक्तिहेतु रसायनं ज्ञानं, वस्तुतः अवलोकनचमत्कारि ज्ञानं, इत्येवं आत्मज्ञानं परमं उपादेयज्ञानं यथार्थावबोधपर भावत्यागलक्षणं स्मृतं, इत्यनेन अनादिपरभावपरिणतस्य मिथ्यात्वाज्ञानासंयममोहितस्य परभावोत्पन्नात्मरोधक परिणतिं तत्त्वत्वेनांगीकुर्वन् परभावमोहितो भ्रमति सूक्ष्मनिगोदादिचतुर्दशसु जीवस्थानेषु स च तत्त्वज्ञानामृतपरिणत आत्मा मिथ्यात्वादिदोषान् विहाय सम्यग्दर्शनज्ञानचारित्रकोटिमारूढः स्वरूपावभासानंदी सर्वदोषरहितो भवति, अत एवामृतं रसायनं ज्ञानं तदर्थमेवोद्यमः कार्यः ॥ इति व्याख्यातं ज्ञाना
Acharya Shri Kailassagarsuri Gyanmandir
ष्टकम् ॥
अथ पंचमज्ञानाष्टककथनानंतरं षष्ठं शमाष्टकं प्रारभ्यते, ज्ञानी हि ज्ञानात् क्रोधादिभ्य उपशाम्यति, अतः शमाष्टकं विस्तार्यते, तत्र आत्मनः क्षयोपशमाद्याः परिणतयः स्वभावपरिणामेन परिणमंति न तप्तादिपरिणतौ स शमः, नामशमस्थापनाशमौ सुगमौ, द्रव्यशमः परिणत्यसमाधौ प्रवृत्तिसंकोचो द्रव्यशम आगमतः, शमस्वरूपपरिज्ञानी अनुपयुक्तो नोआगमतः मायया लब्धिसिद्ध्यादिदेवगत्याद्यर्थं उपकारापकारविपाकक्षमादिक्रोधोपशमत्वं इत्यपि द्रव्यशमः, भावतः उपशमस्वरूपोपयुक्त आगमतः, नोआगमतो मिथ्यात्वमपहाय यथार्थभासनपूर्वकचारि - मोहोदयाभावात् क्षमादिगुणपरिणतिः शमः सोऽपि लौकिकलोकोत्तरभेदाद् द्विविधः, लौकिकं वेदांतवादिनां लोकोत्तरं जैन
,
US
For Private And Personal Use Only