SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३८ शमाष्टकम् द्रव्ययापि दयात्वेन आरोपिता, “श्रीविशेषावश्यके” गणधरवादाधिकारे इति । अतो द्रव्यदया तु कारणरूपा, भावदया तु दयाधर्मः, एवंविधाया दयानद्याः शमपूरे सकलकषायपरिणतिशांतिः शमः रागद्वेषाभावः वचनधर्मरूपः शमः तस्य पूरः, तस्मिन् प्रसर्पति वृद्धिमति सति विकाराः कामक्रोधादयः अशुद्धात्मपरिणामाः त एव तीरवृक्षाः तेषां मूलात् उन्मूलनं भवेत् उच्छेदनं भवेत् अभावः इत्यनेन ध्यानयोगतो दयानदीपूरः प्रवर्द्धते वर्द्धमानपूरश्च विकारवृक्षाणां उच्छेदनं करोत्येव अयं हि आत्मा विषयकषायविकारविप्लुतः स्वगुणावरककर्मोदयतः परिभ्रमति स एव स्वरूपोपादानतः तस्वैकत्वतया प्रवर्द्धमानशमपूरो विकारान् मूलात् उन्मूलयति ॥ ४॥ ज्ञानध्यानतपःशील - सम्यक्त्वसहितोऽप्यहो । तं नामोति गुणं साधुर्यमाप्नोति शमान्वितः ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्या० - ज्ञानध्यानेति - ज्ञानं तच्वावबोधः, ध्यानं परिणाम - स्थिरतारूपं, तपः इच्छानिरोधः, शीलं ब्रह्मचर्य, सम्यक्त्वं तत्वश्रद्धांनं, पदानां उत्क्रमता द्वंद्वसमासात्, इत्यादि गुणोपेतः साधुः साधयति रत्नत्रयकरणेन मोक्षं स साधुः तं निरावरणगुणं केवलज्ञानादिगुणं नाप्नोति न प्राप्नोति यं गुणं शमान्वितः शमताचारित्रमय आप्नोति प्राप्नोति लभते इत्यर्थः । अत्र ज्ञानादयो गुणा निरावरणाम केवलज्ञानस्य परंपराकारणं शमः कषायाभाव:, यथाख्यातसंयमः केवलज्ञानस्यासन्नकारणं, अस्वकरणसमीकरण - किट्टीकरणवीर्येण सूक्ष्मलोभं खंडशः कृत्वा क्षयं नीते सति निविकल्पसमाधौ अभेदरत्नत्रयी परिणतिः क्षीणमोहावस्थायां यथाख्यातचारित्री परमशमान्वितः ज्ञानावरण-दर्शनावरणांतरायक्षयं नयति, ५० For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy