________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२३१
द्वितीयसमये जवन्या विशोधिरनंतगुणा, ततोऽपि तस्मिन्नेव द्वितीयसमये तु उत्कृष्टा विशोधिरनंतगुणा, एवं प्रतिसमये तावद्वायं यावच्चरमसमये उत्कृष्टा विशोधिः, अपूर्वाणि करणानि स्थितियावत् रसघातगुणश्रेणिस्थितिबंधादीनां निवर्त्तनानि यस्मिन तत अपूर्वकरणं । तथाहि अपूर्वकरणे प्रविशन् प्रथमसमय एवं स्थिति घातं रसघातं गुणश्रेणिस्थितिबंधं चान्यं युगपदारभते, तत्र स्थितिवातः स्थितिसत्कर्मणोऽग्रिमभागादुत्कर्षतः उदधिपृथक्त्वप्रमाणं, जघन्येन पुनः पल्योपमसंख्येयभागमात्रं, स्थिति कंडकमुक्तिरिति उत्कार्य च या स्थितिः अधो न खंडयिष्यति तत्र तद्दलिकं प्रक्षिपति, अंतर्मुहूर्त्तेन कालेन तत् स्थितिकंडकं उत्कायेते एवं द्वितीयं, एवं तृतीयं एवं प्रभूतानि स्थितिखंड ह स्राणि व्यतिक्रामंति, तथा च सति यत् अपूर्वकरणस्य प्रथमसमये स्थितिः सत्कर्मा आसीत् तत्तस्यैव चरमसमये संख्येयगुणहीनानां जातं । रसवाते तु अशुभानां प्रकृतीनां यत् अनुभागसद नुआरासत्कर्म तस्य अनंततमं भागं मुक्वा शेषान् अनंतानुभागभागान् अंतिमवृत्तेन विनाशयति, ततः पुनरपि तस्य प्रागुक्तस्पानंततमं भागं मुक्त्वा शेषान् विनाशयति, एवं अने कानि अनुभागखंडसहस्राणि एकस्मिन् स्थितिखंडे व्यतिक्रामति, तेषां च स्थितिखंडानां सहस्रैः द्वितीयमपूर्वकरणं परिसमाप्यते । स्थितिबंधाद्वा तु अपूर्वकरणस्य प्रथमसमये अन्य एव अपूर्वपल्योपमसंख्येयभागहीनस्थितिबंध आरभ्यते । जीर्णस्थितिघातस्थितिबंधौ तु युगपदारभ्येते । युगपदेव निष्ठां यातः गुणणिषु । यथागुणसेढीनिरक्खेवो, समए समए असंखगुणणाए । अद्धादुग्गहरितो सेसे सेसे य निक्खेवो ॥ १ ॥
4
४३
For Private And Personal Use Only