________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३०
ज्ञानमंजरी टीका.
पुरुषौ युगपत्करण
षटस्थानप्रतीतानि । इह कल्पनया द्वौ प्रपन्नौ विवक्ष्येते, तत्र एकः सर्वजघन्यया श्रेण्या प्रतिपन्नः, अपरः सर्वोत्कृष्टया विशोध्या, प्रथमजीवस्य प्रथमसमये मंदा, द्वितीयसमये अनंतगुणा तृतीये अनंतगुणा एवं यावत् येषां प्रवृत्तकरणस्य संख्येयो भागो गतो भवति, ततः प्रथमसमये द्वितीयस्य जीवस्य, उत्कृष्टं विशोधिस्थानं अनंतगुणं वक्तव्यं, ततोऽपि द्वितीये उत्कृष्टा विशोधिरनंतगुणा, तत उपरि जवन्यविशोधिः अनंतगुणा, एवमुपर्यधश्च एकैकं विशोधिस्थानमनंतगुणं द्वयोर्जीवयोस्तावन्नेयं यावच्चरमसमये जघन्यविशोषिस्ततः आचरमात् चरममभिव्याप्य यानि अमुक्तानि शेषाणि उत्कृष्टानि स्थानानि तानि क्रमेण निरंतरमनंतगुणानि वक्तव्यानि तदेवं समाप्तं यथाप्रवृत्तकरणं, अस्य च यथाप्रवृत्तकरणस्य पूर्वप्रवृत्तं इति द्वितीयं नामशेषकरणाभ्यां पूर्व प्रथमं प्रवृत्तं पूर्वप्रवृत्तमिति अस्मिश्च यथाप्रवृत्तकरणे स्थितिघातरसंघातौ गुणश्रेणिर्वा न प्रवतैते केवलमुक्तरूपा विशोधिरेवानंतगुणा यानि वा प्रशस्तानि कर्माण्यत्र स्थितो बन्नाति, यानि च शुभानि तेषां चतुःस्थानकं स्थितिबंधेऽपि पूर्णे पूर्णे सत्यन्यं स्थितिबंधं पल्योपमसंख्येनभागन्यूनं च बध्नाति । संप्रति अपूर्वकरणमभिधीयते । " बीयस्स बीय समये जह एहमवि अनंतरुक्कस्सा" इत्यादिवचनात् । द्विवीयस्य अपूर्वकरणस्य यो द्वितीयः समयः कृतजघन्यमपि विशोविस्थानात् अनंतगुणं वक्तव्यं । एतदुक्तं भवति - ते हि यथाप्रवृत्तकरणवत् प्रथमतो निरंतरं विशोधिस्थानं अनंतगुणं वक्तव्यं, किंतु प्रथमसमये प्रथमतो जघन्या विशोधिः सर्वस्तीका, सापि च यथाप्रवृत्त करणचरमसमयभाविन उत्कृष्टा विशोषिस्थानात् अनंतगुणा, ततः प्रथमसमये एवोत्कृष्टा विशोधिरनंतगुणा, ततो
४२
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only