________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२२९
संख्येयभागन्यूनं करोति, ततः अन्यं पल्योपमासंख्येयभागं न्यूनं करोति अतः अन्य स्थितिबंधपूर्वपूर्वापेक्षया पल्योपमासंख्येयभागं न्यूनं करोति, अशुभानां च प्रकृतीनां बध्यमानानामनुभागं द्विस्थानकं बनाति, तमपि प्रतिसमयमनंतगुणहीनं शुभानां च चतुःस्थानकं प्रतिसमयमनंतगुणवृद्धिं कुर्वन् करणं यथाप्रवृत्तं करोति, ततोऽपूर्वकरणं, ततः अनिवृत्तिकरणमिति, करणं परिणामविशेषः । एतानि च त्रीण्यपि करणानि प्रत्येकमंतर्मुहूर्तकानि तत उपशांताद्वा लभते सापि चांतमुहर्चिकी यथाप्रवृत्तिकरणं च-- अणुसमयं वड्ढंतो अज्झवसाणाणणंतगुणणाए । परिणामठाणाणं दोसु वि लोगा असंखिज्जा ॥१॥ ___इति कर्मप्रकृतौ, प्रतिसमयं अध्यवसानानामनंतगुणतया विशुद्धया वर्द्धमानानां करणसमाप्तिं यावत् वर्धन्ते तानि कियंति अध्यवसानानि भवंति ? द्वयोरपि यथाप्रवृत्तापूर्वकरणयोः परिणामस्थानानामनुसमयं लोकासंख्यया भवति यथाप्रवृत्तकरणे अपूर्वकरणे च प्रतिसमये संख्येयलोकाकाशप्रदेशराशिप्रमाणानि, अध्यवसायस्थानानि भवंति; तथाहि यथाप्रवृत्तकरणे प्रथम समये विशोधिस्थानानि नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेश प्रमाणानि, द्वितीयसमये विशेषाधिकानि, ततोऽपि तृतीयसमये विशेषाधिकानि, एवं यावच्चरमसमये, एवमपूर्वकरणेऽपि द्रष्टव्यं । अमूनि चाव्यवसायस्थानानि यथाप्रवृत्ताऽपूर्वकरणयोः संबंधीनि स्थाप्यमा नानि विषमचतुरस्र क्षेत्र आवृण्वंति, तयोरुपरि चानिवृत्तिकरणाध्यवसायानि मुक्तावलीसंस्थानि उपरि उपरि अमूनि अनुचिंत्यमानानि प्रतिसमयमनंतगुणवृद्धया प्रवर्त्तमानान्यवगंतव्यानि, तिर्य
४१
For Private And Personal Use Only