________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२८
ज्ञानमंजरी टीका.
उपयुज्यंते ? न क्वापि, दृष्टिः सर्वालोकनक्षमा तर्हि सहायभूतदीपस्य किं प्रयोजनं १ । अत्र ग्रंथिभेदस्वरूपं । तत्र - पंचेंद्रियत्वसंज्ञित्वपर्याप्तत्वरूपाभिस्तिसृभिः लब्धिभिः युक्तं अथवा उपशमलब्धिः उपदेशश्रवणलब्धिः करणत्रयहेतुप्रकृष्टयोगलब्धित्रिकयुक्तः करणकालात्पूर्वमपि अंतर्मुहर्तकालं यावत् प्रतिसमयमनंतगुणवृद्ध्या विशुद्धया विशुध्यमाना अवदातमाना चित्तसंततिः ग्रंथिकसत्वानां अभव्यसिद्धिकानां या विशोधिः तामतिक्रम्य वर्त्तमानः ततोऽनंतगुणविशुद्धः अन्यतरस्मिन् ( मतिश्रुतविभंगान्यतमस्मिन् साकारोपयोगे ) चान्यतमस्मिन् वर्त्तमानः तिसृणां विशुद्धानां लेश्यानामन्यतमस्यां लेश्यायां वर्त्तमानो जघन्यतः तेजोलेश्यायां, मध्यमपरिणामेन पद्मलेश्यायां, उत्कृष्टपरिणामेन शुक्ललेश्यायां, तथा पूर्वजानां सप्तानां कर्मणां स्थितिमतः सागरोपमकोटाकोटिप्रमाणं कृत्वा अशुभानां कर्मणां अनुभागं च मुख्यस्थानकं संतं ( सत् ) द्विस्थानकं करोति, शुभानां च कर्मणां द्विस्थानकं संतं ( सत् ) चतुःस्थानकं करोति, तथा ध्रुवप्रकृतीः सप्तचत्वारिंशत् संख्यया बध्नन् परावर्त्तमानाः स्वस्वभावप्रायोग्याः प्रकृतीः शुभा एव बजाति ता अप्यायुर्वः अतीव विशुद्धपरिणामो हि नायुर्बंधमारभते, यदुत तिर्यग् मनुयो वा प्रथमं सम्यक्त्वं उत्पादयन् देवगतिप्रायोग्याः शुभाः प्रकृतीः बध्नाति, देवो नैरयिको वा प्रथमं सम्यक्त्व - मुत्पादयन् मनुजगतिप्रायोग्याः सुभगाः प्रकृतीः बन्नाति, सप्तमनरकतिद्विकं नीचैर्गोत्रं बध्नाति, भवप्रायोग्यात बव्यनानस्थितिः अंतः सागरोपमकोटाकोटिं बन्नाति, नाविकां योगवशात् प्रदेशाग्रमुत्कृष्टजवन्यमध्यमं च बध्नाति, स्थितिबंचे पूर्णे सत्यन्यं स्थितिबंधं प्राक्तनस्थितिबंधं प्राक्तनस्थितिबंधापेक्षया पल्योपमा
४०
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only