________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका. आया सभावनाणी, भोइ रमई विवत्युधम्मंमि । सो उत्तमो महप्पा, अवरे भवसूयरा जीवा ॥१॥ परापरद्रव्यगुणपर्यायस्मरणानुभवलक्षणा परिणतिः अन्यथा अकार्या अहिता परभावपरिणाम एव भ्रमणहेतुः; उक्तं चपरसंगेण बंधो, मुक्खो परभावचायणे होई । सबदोसाण मूलं, परभावाणुभवपरिणामो॥१॥
अत एव देशविरतसर्वविरताः प्रत्याख्याति परिग्रहादीन् , त्यजति स्वजनपरिजनान् , प्रतिपद्यते एकाकिविहार, शृण्वति स्वसत्तागोष्टिं, चिंतयंति स्वधर्मानंततां, ध्यायति स्वगुणपर्याय, परिणाममना भवंति तदनुभवनेन, त्यजति सर्वपरभावानुमोदनाम् इत्येवं प्रकारेण मुनेः त्रिकालनिर्विषयस्य ज्ञाततत्त्वस्य मुष्टि
ानस्थितिः अवस्थानं, संक्षेपरहस्यज्ञानविश्राममर्यादा; कथंभूता स्थितिः ? दत्तात्मसंतुष्टिः, दत्ता प्रदत्ता आत्मनः संतुष्टिः संतोष इत्यनेन आत्मग्रहणं परपरित्यागः इति मर्यादा निग्रंथस्य ॥५॥ अस्ति चेद् ग्रन्थिभिद् ज्ञानं, किं चित्रैस्तन्त्रयन्त्रणैः। प्रदीपाः कोपयुज्यन्ते?, तमोनी दृष्टिरेव चेत् ॥६॥
व्या०-अस्तीति चेत् यदि ग्रंथिमित् ग्रंथिभेदोत्पन्नं विषयप्रतिभासदलविकलं आत्मधर्मवेद्यसंवेद्यरूपं ज्ञानं प्रतिभासः अस्ति; तंत्रयंत्रणैः चित्रैः अनेकप्रकारैः परसाधनानिमित्तैः किं ? न किमपि सम्यग्दर्शनज्ञानचारित्रभावपरिणतस्य किं परापेक्षया ? । तत्र दृष्टांतः । चेत् दृष्टिः चक्षुः तमोटो तमः अंधकारं तस्य नी हंत्री प्राप्ता तदा प्रदीपाः क्व
३९
For Private And Personal Use Only