SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ ज्ञानमंजरी टीका. __ भावना च घात्यस्थितिखंडमध्याइलिकं गृहीत्वा उदयसमयात् प्रतिसमयं असंख्येयगुणतया निक्षिपति प्रथमसमये स्तोकं, द्वितीयसमये असंख्येयगुणं, तृतीयसमये असंख्येयगुणं, एवं याचरमसमयः । एष प्रथमसमयगृहीतदलकनिक्षेपविधिः, एवं द्वितीयादिसमयगृहीतानां अपि, इत्यनेन प्रथमसमये स्तोकः, द्वितीयसमये असंख्येयगुणः, तृतीयसमये असंख्येयगुणः, गुणश्रेणिदलिकनिक्षेपो भवति । इति अपूर्वकरणस्वरूपं । अनिवृत्तिकरणे एतदुक्तं भवति-अनिवृत्तिकरणस्य प्रथमसमये ये वर्तते ये च वृत्ताः ये च वर्तिष्यंते तेषां सर्वेषामपि समाना एकरूपा विशोधिः, द्वितीयसमयेऽपि ये वर्तते ये च वृत्ताः ये च वर्त्तिष्यंते तेषामपि समा विशोधिः, एवं सर्वेष्वपि समयेषु, नवरं-पूर्वतः उपरितने अनंतगुणाधिका विशोधिः चरमसमयं यावत्, अस्मिन् करणे प्रविष्टानां तुल्यकालानामसुमतां परस्परमध्यवसायानां या निवृत्तिावृत्तिः सा न विद्यते इत्यनिवृत्तिकरणंअनिवृत्तिकरणे यावंतः समयास्तावंति अध्यवसायस्थानानि पूर्वस्मात् पूर्वस्मात् अनंतगुणवृद्धानि भवंति अनिवृत्तिकरणाद्धायाः संख्येयेषु भागेषु सत्सु एकस्मिंश्च भागे संख्येयतमे शेषे तिष्ठति अंतर्मुहुर्त्तमात्रमधो मुक्त्वा मिथ्यात्वस्यांतरकरणं करोति अंतरकरणकालश्चांतमुर्हत्तप्रमाणः अंतरकरणे च क्रियमाणे गुणश्रेणेः संख्येयतमं भागं उत्किरति उत्कीर्यमाणं च दलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति एवं उदीरणाआगावलेन मिथ्यात्वोदयं निवार्य औपशमिकं सम्यक्त्वं लभते । उक्तं च-- मिच्छनुदये क्खीणे लहइ संमत्तमोवसमीयं । सोलंभेण जस्स लब्भइ आयहियं अलद्धपुत्वं जं॥१॥ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy