________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
ज्ञानमंजरी टीका.
एवं परंद्रव्येन अरमन् आत्मा मुच्यते अत एव सर्वसङ्गपरिहारोऽसङ्गा हि मुच्यतां निमित्तं मुह्यतां त्यागार्था, तन्निमित्तान् धनस्वजनाङ्गनाभोजनादीन् त्यजति कारणाभावे कार्याभावः, इति भावाश्रेयपरिणतिरोवसंयमः, तद्रक्षणाय वृद्धयर्थं हिताय आश्रवत्यागो मुनीनां, भावना च-यैः परभावा अभोग्या अग्राह्याः कृताः ते कथं तत्र रमन्ते ? ॥३॥ पश्यन्नेव परद्रव्य-नाटकं प्रतिपाटकम् । भवचक्रपुरःस्थोऽपि, नामूढः परिखिद्यति ॥ ४॥
व्या०-पश्यन्नेवेति; स्वरूपाच्युतिस्वधर्मैकत्वे 'अमूढः' तत्त्वज्ञानी, स्वरूपसाधनोद्यतः, 'प्रतिपाटकं' एकेन्द्रिय-विकलेन्द्रियपश्चेन्द्रियरूपपाटके वरतिर्यग्देवनरकलक्षणे सर्वस्थाने परद्व्यनाटकं जन्मजरामरणादिरूपं संस्थाननिर्माणवर्णादिभेदविचित्रं, पश्यन् एव न 'परिखिद्यति' न खेदवान् भवति । जानाति च पुद्गलकर्मविपाकजां चित्रतां, न मत्स्वरूपं प्रान्तानां भवत्येव, न तत्त्वपूर्णानां कथंभूतः ? अमूढः भवचक्रपुरस्थः अपि, अनादिस्वकृतकर्मपरिणामनृपराजधानीचतुर्गतिरूपभवचक्रकोडगतोऽपि, आत्मानं मिन्नं जानन् न खिद्यति, परस्मैपदं तु काव्ये प्रयुक्तत्वात "खिद्यति काव्ये जडः” इति पाठदर्शनात्। इत्यनेन कर्मविपाकचिबतां भुंजन्नपि अखिन्नः तिष्ठति, कर्तृत्वकाले न अरतिःअनादरः तर्हि भोगकाले को द्वेष उदयागतभोगकाले इष्टानिष्टतापरिणतिरेव अमिनवकर्महेतुः, अत अव्यापकतया भवितव्यं, शुभोदयोऽपि आवरणः, अशुभोदयोऽप्यावरणः, गुणावरणत्वेन तुल्यत्वात् का इष्टानिष्टता ? ॥ ४॥
For Private And Personal Use Only