________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
यो न मुह्यति लग्नेषु, भावेष्वौदयिकादिषु । आकाशमिव पङ्केन, नाऽसौ पापेन लिप्यते ॥ ३ ॥
२१७
व्या० - यो न मुह्यति इति, यो जीवः तत्त्वविलासी 'औदयिकादिषु भावेषु, शुभाशुभकर्मविपाकेषु आदिशब्दात् परभावानुगक्षयोपशमे अशुद्रपारिणामिकभावग्रहः, तेषु 'लग्नेषु' आत्मनि स्वक्षेत्रीभूतेषु यो न मुह्यति मोहकीभावं न प्राप्नोति, भेदज्ञानविवेकेन त्यक्तपरसंयोगः अवश्योदितेषु यः अव्यापकः स पापेन कर्मणा न लिप्यते । किमिव पङ्केन आकाशमित्र, यथा आकाशस्थपङ्कः आकाशस्य न लेपकृत्, तत्र अपरिणमनात् । एवं शमसंवेगनि वैदनिग्रहीतपरभावस्य अवश्योदयविपाके भुज्यमानेऽपि अव्यापकत्वाद् न लेपः । स हि - पूर्वकर्मनिर्जरारूपं कार्य करोति, स्वीयपरिणामस्य भिन्नरक्षणेन अकर्तृत्वं तस्य परभावानाम् । उक्तं च अध्यात्मबिन्दौ
For Private And Personal Use Only
स्वत्वेन स्वं परमपि परत्वेन जानन् समस्तान्यद्रव्येभ्यो विरमणमिति यच्चिन्मयत्वं प्रपन्नः । स्वात्मन्येवाभिरतिमुपनयन् स्वात्मशीली स्वदर्शीत्येवं कर्त्ता कथमपि भवेत् कर्मणो नैष जीवः ॥१॥ न कामभोगा समयं उवेंति,
नयावि भोगा विगई उवेंति ।
जे तप्पओसी अ परिग्गही अ सो तेसु मोहा विगई उबेइ ॥ २ ॥
28
२९