________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१६
ज्ञानमंजरी टीका.
इत्येवं विभाव्य द्रव्यकर्मतनुधनस्वजनेषु भिन्नतां नीतेषु स्वभावैकत्वेन मोहजयो दृष्टः; अतः अहङ्कारममकारत्याग इष्ट इति ॥ १॥ पुनस्तदेव भावयतिशुद्धात्मद्रव्यमेवाहं, शुद्धज्ञानं गुणो मम । नान्योऽहं न ममान्ये चे-त्यदो मोहास्त्रमुल्बणम् ॥२॥
Acharya Shri Kailassagarsuri Gyanmandir
मे
व्या० - शुद्धात्मद्रव्यं इति, शुद्धो निर्मलः सकलपुद्गलाश्लेपरहितो ज्ञानदर्शनचारित्रवीर्याव्याबाधामूर्त्ताद्यनन्तगुणपर्याय नित्याद्यनन्तस्वभावमयः, असंख्यप्रदेशी, स्वभावपरिणामी, स्वरूपकर्त्तृत्वभोक्तृत्वादिधर्मोपेतः, आत्मा शुद्धात्मा, तदेव शुद्धात्मद्रव्यं एव अहं, अनन्तस्याद्वादस्वसत्ताप्रागभावरसिकः, अनवच्छिन्नानन्दपूर्णः परमात्मा परमज्योतीरूपः, अहं शुद्धं निरावरणं सूर्यचंद्रादिसहायविकलप्रकाशं, एकसमये त्रिकालत्रिलोकगतसर्वद्रव्यपययोत्पादव्ययत्रौव्यावबोधकं ज्ञानं मम गुणः कर्त्ता ज्ञानस्य, कार्य ज्ञानं, ज्ञानकरणान्वितो ज्ञानपात्रो ज्ञानात् जानन्, ज्ञानाधारोऽहं ज्ञानमेव मम स्वरूपं इत्यवगच्छन् अन्ये धर्माधर्माकाशपुद्गलस्वतोऽन्यत् जीवपदार्थ: जीवपुद्गलसंयोगजपरिणामः अन्यः सर्वः, अहं न, मत्तो भिन्ना एव एते पूर्वोक्ता भावा मम द्रव्यादिचतुष्टयेन भिन्नत्वात् । यो हि व्याप्यव्यापकभावाद् भिन्नः, स मम न, यः असंख्यप्रदेशे स्वक्षेत्रे अभेदतया स्वपर्यायपरिणामः, स मम इति, स्वस्वरूपे स्वत्वं, परे परत्वपरिणामः, 'मोहास्त्रं' मोहच्छेदकं अस्त्रं ईदृग्भेदज्ञानविभक्तेन मोहक्षयः, अतः सर्वपरभावभिन्नत्वं विधेयं । अत एव निर्ग्रन्थास्त्यजन्ति आस्रवान् श्रयन्ति गुरुचरणान्, वसन्ति वनेषु, उदासीभवन्ति विपाकेषु, अभ्यस्यन्ति आगमव्यूहं, अनादिपरभावच्छेदाय प्रयत्न उत्तमानाम् ॥ २ ॥
"
२८
For Private And Personal Use Only