SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . ज्ञानमंजरी टीका. २१.९ विकल्पचषकैरात्मा, पीतमोहासवो ह्ययम् । भवोच्चतालमुत्ताल-प्रपञ्चमधितिष्ठति ॥ ५ ॥ व्या०-विकल्पचषकैरिति, विकल्पाश्चित्तकल्लोला एव चषका मद्यपानपात्राणि तैः, हीति निश्चितं अयं जीवः पीतो मोह एव आसवो मादकरसो येन सः पीतमोहासवः पुरुषो भवोच्चतालं भवः संसारः स एव उच्चतालं मद्यपगोष्टीक्षेत्र प्रति उच्चतालं पुनःपुनः उच्चस्वरेण तालदानरूपं प्रपञ्चं विस्तार अधितिष्ठति प्राप्नोति इत्यनेन मोही जीवो मदिरामत्तवत् चापल्यवैकल्यं करोति पर स्वत्वेन स्वं च परत्वेन कलयन् आत्मानं अकायनिष्पादनपटिष्ट प्रवर्तयन् स्वस्थानभ्रष्टो भ्रमति, अत एव मोहत्यागः श्रेयान् ॥५॥ निर्मलस्फटिकस्येव, सहज रूपमात्मनः। अध्यस्तोपाधिसम्बन्धो, जडस्तत्र विमुह्यति ॥६॥ __व्या०-निर्मलस्फटिकस्येवेति, निर्मलस्फटिकस्य वरणनिस्सङ्गस्फटिकस्य इव आत्मनो ज्ञायकद्रव्यस्य सहज-स्वाभाविकं शुद्धं रूपं अस्ति इत्यनेन वस्तुवृत्त्या आत्मा स्फटिकवत् निर्मल एवनिस्सङ्ग एव संग्रहनयेन आत्मा परोपाधिसङ्गी एव नास्ति परमज्ञायकचिदानन्दरूपः अध्यास्थोपाधिसम्बन्धः प्राप्तपुद्गलसंसर्गजकर्मोपाधिसम्बन्धः, अनेकग्लानम्लानावस्थो जडः वस्तुस्वरूपापरिज्ञानी तत्र उपाधिभावे मुह्यति, एकत्वं प्राप्नोति, यथा-मूर्खः श्यामनीलपीतादिपुष्पसंयोगात् स्फटिकाभेदरीत्या नीलपीतस्वभावं जानाति तथा वस्तुस्वरूपावबोधविकलो जीवो मिथ्यात्वाऽविरतिकषाययोगनिमित्ताद् बद्धकेन्द्रियादिनामकर्मोदयात् एकेन्द्रियादिभावमापन्नं एकेन्द्रियादिरूपमेव मन्यते, एकेन्द्रियोऽहं विक For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy