________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२११
mmarrrrrrrrruaran
inwwmanarmed
शल्ये सति क्रियौषधेन नो रोगापगमः, अत आभ्यंतरं परानुयायिता-परकर्तृता-परब्यापकतारूपं शल्यं निवारणीयमिति ॥४॥ स्थिरता वाङ्मनःकायै-र्येषामङ्गाङ्गितां गता। योगिनः समशीलास्ते, ग्रानेऽरण्ये दिवा निशि ॥५॥ ___ व्या-'स्थिरता इति' येषां प्राणिनां वाङ्मनःकायैर्वचनमनःकाययोगैः, स्थिरता आत्मगुणनिर्झरभासनरमणैकत्वरूपा अङ्गाङ्गितां तन्मयतां गता प्राप्ता, ते योगिनो मुनीश्वराः, समशीलाः समस्वभावाः, स्वद्रव्य-स्वक्षेत्र-स्वकाल-स्वभावरूपस्वात्मस्वभावतोऽन्यत् परद्रव्ये परत्वरूप समत्वेन ज्ञानात् स्वात्मनः सकाशात् यदन्यत् तत्सर्वं भिन्नं इति समत्वं येषां निष्पन्नं तेषां 'ग्रामे' जनसमूहलक्षणे 'अरण्ये' निर्जने 'तुल्यत्वं' इष्टानिष्टताऽभावः 'दिवा वासरे' निशि रात्रौ समत्वं तुल्यपरिणतिः अरक्तद्विष्टतारूपा समपरिणतिर्भवति ॥ ५॥ स्थैर्यरत्नप्रदीपश्चेद्, दीप्रः सङ्कल्पदीपजैः। तढिकल्पैरलं धूमै-रलंधूमैस्तथाऽऽस्त्रवैः॥६॥ ___ व्या.--'स्थैर्यरत्नेति' यस्य पुरुषस्य 'चेत्' यदि 'स्थैर्यरनप्रदीपः, स्थिरतारू परखदीपकः 'दीप्रः' देदीप्यमानः तत् तदा संकल्पजैः विकल्पैः धूमैः अलं सृतं, परचिंताऽनुगाऽशुद्धचापल्यरूपः संकल्पः, पुनः पुनः तत्स्मरणरूपो विकल्पः सङ्कल्पविकल्परूपधुमैः अलं सतं, यस्य स्वरूपैकत्वरूपा स्थिरता भासते तस्य सङ्कल्पविकल्पा न भवन्ति, यद्यपि निर्विकल्पसमाधिः अमेदरलयकाले, तथा; स्वरूपलीनानां सांसारिकसङ्कल्पविकल्पा. भावः, तथा 'अलंधूमः' असंतधूमैः मलिनैः आस्रवैः अपि अल
For Private And Personal Use Only